Book Title: Chaturharavali Chitrastava
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
23
अनुसंधान-२०
भाव्या जिना मेऽत्र भवन्तु तुल्य-श्रियः सुरेनव्रजसेव्यपादाः । दानादिधर्मान्वितधौततत्त्वी-पदेशदानस्थितये स्थिराभा: ॥१३||
व्याख्या : अत्र संसारे भाव्या-भविष्यन्तो जिना मे-मम दानादिधर्मान्वितधौततत्त्वोपदेशदानस्थितये भवन्तु । दानमादिर्येषां ते दानादयः, ते च ते धर्माश्च दानादिधर्माः । तैरन्वितानि धौतानि- निर्मलानि तत्त्वानि, तेषामुपदेशाः, तेषां दानं, तस्य स्थितिः, तस्यै सन्तु । किंविशिष्टाः ? तुल्यश्रियः-- समानलक्ष्मीका: । अपरं किंविशिष्टाः ? सुरेनवजसेव्यपादा:-अमरस्वामिसमूहाराध्यचरणा: । अपरं किंविशिष्टाः ? स्थिराभा-निश्चलकान्तयः । इति वृत्तार्थः
॥१३॥
अथ समाप्तिवृत्तमाह
इत्थं नायकवज्रबन्धचिरा सत्कण्ठभूषाकरी येषां नाममयैः सुवर्णमणिभिर्हारावली निर्मिता । चारित्रप्रभदीक्षितस्तुतपदा देयासुरुच्चैजिना--
स्ते श्रीसूरिपदाज्जयादितिलकस्यास्यापि मे मङ्गलम् ॥१४॥ व्याख्या पूर्ववत् ॥ इत्यागमिक श्रीजयतिलकसूरिकृता हारावलितृतीयचित्रस्तवटोका समाप्ता || छ ॥ श्री ॥
***
अथ विहरमाण-शाश्वतजिनहारावलिचित्रस्तवं चतुर्थं व्याचिख्यासुः प्रथमवृत्तमाह । स्थापना
सी । मंधरः पूर्वविदेहभू
गल्यचित्रोस्तु मुदे प्रजा
मं दिशन् संप्रति पबि र । क्ताधरोऽसौ जयतात् सुबा | हुः व्याख्या : सीमंधरो जिनः प्रजासु-लोकेषु मुदेऽस्तु । विदेहभूश्रीम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29