Book Title: Chaturharavali Chitrastava
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
July-2002
(३)
अथाऽनागतचतुर्विशतिकाहारावलितृतीयचित्रस्तवं व्याचिख्यासुः प्रथम वृत्तमाह । स्थापना
या दुरापा तव पद्मना तेव शब्दादिगता जिनें र्थोऽगिनां भद्रकृदासगी: वेंदिराया इव साध्वहो
|
अ
व्याख्या : हे पद्मनाभजिनेन्द्र ! तव पद्मा-लक्ष्मीर्दुरापा-दुःप्रापा, वर्तते इत्यध्याहार्यम् । केव ?, शब्दादिगताऽदातेव । यथा शब्दादौ 'य' इति संयुक्ताक्षरं दुर्लभम् ॥ अथोत्तरार्द्धव्याख्या:- हे भद्रकृत्-चरमजिनपते ! अहो इति सम्बोधने । त्वं साधु-सम्यक् प्रकारेण अङ्गिनां -प्राणिनां नाथो भव । किविशिष्टस्त्वं?, आप्तगी:कृत् - आगमवाणीविधायक: । क इव ?. विष्णुरिव । यथा अ:-विष्णुः इन्दिराया-लक्ष्म्याः नाथो बभूवेत्यर्थः ॥११॥ सर्वत्र पातनिका पूर्ववत् ॥ द्वितीयवृत्तमाह । स्थापना
|
।
रादिदेवाभ्युदयं जनी
वेरिवेच्छामि तवेह ता दे । शे व ते संगम एष भा व | रेण्यपुण्याप्तिरनंतवी
P
व्याख्या : हे सूरादिदेव-सूरदेव ! तात ! इहाऽस्मिन् संसारे तवाभ्युदयमिच्छामि-वाञ्छामि । किंविशिष्टं ?, जनीनं जनेभ्यो हितं. कस्येत्र ? खेरिव-सूर्यस्येव, यथा रवेरभ्युदयमिच्छामीत्यर्थः ॥ द्वितीयार्धव्याख्या:- हे अनन्तवीर्यजिन ! एष तव सङ्गमः क्व देशे भावी- भविता ?, किंविशिष्टः ? वरेण्यपुण्याप्ति:- वरेण्येन-प्रधानेन पुण्येन-सुकृतेन आप्ति:-प्राप्तिर्यस्य स तथा इत्यर्थः ॥२॥ तृतीयवृत्तस्थापना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29