Book Title: Chaturharavali Chitrastava
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
16
July-2002
किविशिष्टः ?, परमं-प्रकृष्टं उगतं मनो यस्य स तथा । अपरं किंविशिष्टः ? नयानामेकोऽद्वितीयः शास्ता-अनुशासकः स तथा । अथापरार्द्धव्याख्या:- हे अस्ताघ जिन ! त्वया भवार्णवो-भवसमुद्रः तेरेऽतारि । किंविशिष्टः ?, अघ जात्याकुल:-अघानां-पापानां जातयोऽघजातयः । समुद्रपक्षे तु अघात्-- पापात जाति:-जन्म येषां ते मकर-कच्छपादयः । तैराकुलो-व्याप्तः स तथा । अपरं किंविशिष्टः ?, अस्ताघा-महती लसन्ती जडानां-मूर्खाणां लक्ष्मीर्यत्र स तथा। समुद्रपक्षे ड-लयोरैक्ये प्रकटार्थ एव ॥१०॥ अथैकादशं वृत्तमाह । स्थापना
श्री |
स्वामिवक्त्राञ्जमलीन् विका | शि स्वा मोदपूरेण समाजुहा मी मांसते कः शिवगत्यपां मु | च्चैर्लयं यः श्रुतिषु प्रया | ति
__
व्याख्या : श्रीस्वामिवक्त्राब्ज - श्री स्वामिजिनमुखकमलं स्वामोदपूरेण - निजपरिमलसम्भारेण अलीन्-भ्रमरान् समाजुहाव-आमन्त्रयामास । किविशिष्टं वक्त्रालं?, विकाशि-विकस्वरं ।। द्वितीयार्द्धव्याख्या: - यत्तदोनित्यमेव सम्बन्धः । तं शिवगत्यपाङ्ग-शिवगतिजिननेत्रपर्यन्तं को मीमांसते-को विचारयति यः शिवगत्यपाङ्ग उच्चैरतिशयेन श्रुतिषु-कर्णेषु लयं प्रयाति-गच्छति । श्लेषे श्रुतिषुवेदेषु इत्यर्थः ॥११॥ अथ द्वादशवृत्तमाह । स्थापना
श्शक्तिरासीन्मुनिसुव्रत तोऽपि ते सव्रतखण्डना घ्नो यथा विश्वविसारिधा थातिविश्वं सुमतिर्दधा
व्याख्या : हे मुनिसुव्रतजिन ! श्रीसु[तो]ऽपि-कामोऽपि ते-तत्र स व्रतखण्डनासु-प्रधाननियमभङ्गेषु निःशक्तिरासीद्-अक्षमो बभूव ॥ अथ द्वितीयार्धव्याख्या:- व्रघ्नो-रविर्यथा-येन प्रकारेण विश्वविसारि-जगद्व्यापि धामतेजो दधाति-धारयति, तथा तेन प्रकारेण सुमतिर्जिनः अतिविश्वं विश्वाति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29