Book Title: Chaturharavali Chitrastava Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 6
________________ July-2002 व्याख्या : हे अभिनन्दनेन- हे अभिनन्दनस्वामिन् ! त्वं नन्द-समृद्धि भज । किंविशिष्टस्त्वं ?, भिदेलिमेनाः . भिदेलिमानि भेदेन निवृत्तानि एनासिपापानि यस्य स तथा । विसर्गलोपे सन्धिनिषेधः । तथाऽहं तव-भवत: अंहीपादौ पूजयामी(मि)- अचं यामीति । अथोत्तरार्धव्याख्याः हे नमें - एकविंशतितमजिनेन्द्र ! नाथ-स्वामिन् ! ते-तव दया-कृपा नृपे-राज्ञि दरिद्रेऽपि समाना-तुल्या वर्तते । तहि सा-दया मयि-विषये कथं न ? । यदि सा कृपा मयि विषये भवति तदाऽहं तया संसारवासान्मुक्तो भवामि इत्यर्थ : ॥४॥ अथ पञ्चम-विंशतितम जिनस्तवनमाह । स्थापना खण्डवत्तापहरा शिव । श्री खाय गीस्त सुमत ! प्रजा सु हस्तु ते सुव्रतदेव ! ती | व्र रस्क्रियाकृत् तमसोऽपि ता | त व्याख्या : हे सुमते-पञ्चमजिनपते ! ते-तव गो: - वाणी प्रजासुलोकेषु शिवश्रीसुखाय मोक्षलक्ष्मीशर्मणे वर्तते । किंविशिष्टा गोः ?, तापहराबाह्याभ्यन्तरसन्तापहारिणी । किंवत्?, श्रीखण्डवत्-चन्दनवत् । अथोत्तरार्धव्याख्या: --तु पुनरर्थे, हे पुत्रदेव- हे मुनिसुव्रतस्वामिन । ते-तब पहः- तेजोऽपि तमस:- पाप्मनः तीव्रतिरस्क्रियाकृत्- अत्यर्थतिरस्कारकारि, किं पुनस्तब दर्शनमिति ज्ञेयम् । हे तात- हे जगत्पितर् ! इत्यामन्त्रणं सुव्रतस्येत्यर्थ : ॥५॥ अथ षष्ठकोनविंशयोजिनेन्द्रयोः स्तुतिरूपं वृत्तमाह । स्थापना द्मप्रभाक्षिद्रयमंहसा- मरं मुदे ते स्थिरपक्षमव भो ! प्रभाते भुवि दीप्यमा | नाऽ | जद् यमीत्वं जिनमल्लिना व्याख्या : हे पद्मप्रभ- षष्ठजिनपते ! ते-तव अक्षिद्वयं - लोचनयुगलं मुदेऽस्तु-प्रमादाय भवतु । कथंभूतं ?, अंहसां-पापानां अद्यरं-भक्षणशीलं । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29