Book Title: Charitra Saptakam
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 308
________________ श्री बृहद्विद्वद्गोष्ठी घासो भूत्वा पशून् पाति, भीरुन् पाति रणाङ्गणे ||२४|| ___ ततो भूयोऽपि धनपालो विद्वान् 'सुलेखनीवाऽगुणिनो नराः स्युः' इत्यवादीत्। प्रतिवादी लेखनीमपि सम्यक्तया मण्डयन्नाह__ सत्पात्रे साधुदानं रिपुजनसुहृदां चोपकारं कुरुध्वं, सौजन्यं बन्धुवर्गे निजहितमुचितं स्वामिकार्य यथार्थम्। श्रोत्रे ते कथ्यमेतत्कथयति सततं लेखनी भाग्यशालिन्!, नो चेबष्टाधिकारे मम मुखसदृशं तावकाऽऽस्यं भवेद्धि||२५|| ___अतोऽस्मिन् संसारे लेखन्यपि महदुपकारकं वस्तु, या पत्रादिलेखनादिकार्येषु साहाय्यकी भूत्वा बहुविधं लाभं विधापयति, बहुमानं च रक्षति। एतावदेव नहि किन्तु, जगति नैतादृशं किमपि कार्य विद्यते, यत्तां लेखनीमन्तरैव भवेत्। अतो निर्गुणिनो नराः कथं लेखनीतुल्या? इति। ततो धनपालेन विदुषा प्रोक्तं यत् 'रक्षासमानाः किल ते मनुष्याः' इति। वादी रक्षामपि मण्डयन्नाऽऽह-तस्यामपि बहवो गुणास्तथाहि - मूडकमध्ये क्षिप्ता, करोम्यहं सकलधाब्यरक्षाम् । द्राङ् मां वन्दते मनुजो, मुखशुद्धिकरी सुगब्धाऽऽढया ||२६|| इयं हि रक्षा संसारे नहि निरुपयोगिनी, यतः सहस्रशः स्त्रीपुरुषैर्भोजनान्ते स्वोच्छिष्टपात्राणि रक्षयैव शुद्धीक्रियन्ते। प्रभुभक्तिलीना विरक्तयोगिनो स्वाङ्गेषु रक्षाधारणयैव महायोगिनो निगद्यन्ते। तेषां धूनिकासु रक्षैव पवित्रभूता मन्यते। संसारवासिनां जीवानां जीवनभूतधान्यादिसुरक्षणं रक्षैव विदधाति। मृत्पात्राणि च प्रायशो रक्षाया मेलनेनैव पौष्ट्यं दधते। अत एव नानागुण1. आहार। 2. शीघ्रं। 297

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370