SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ श्री बृहद्विद्वद्गोष्ठी घासो भूत्वा पशून् पाति, भीरुन् पाति रणाङ्गणे ||२४|| ___ ततो भूयोऽपि धनपालो विद्वान् 'सुलेखनीवाऽगुणिनो नराः स्युः' इत्यवादीत्। प्रतिवादी लेखनीमपि सम्यक्तया मण्डयन्नाह__ सत्पात्रे साधुदानं रिपुजनसुहृदां चोपकारं कुरुध्वं, सौजन्यं बन्धुवर्गे निजहितमुचितं स्वामिकार्य यथार्थम्। श्रोत्रे ते कथ्यमेतत्कथयति सततं लेखनी भाग्यशालिन्!, नो चेबष्टाधिकारे मम मुखसदृशं तावकाऽऽस्यं भवेद्धि||२५|| ___अतोऽस्मिन् संसारे लेखन्यपि महदुपकारकं वस्तु, या पत्रादिलेखनादिकार्येषु साहाय्यकी भूत्वा बहुविधं लाभं विधापयति, बहुमानं च रक्षति। एतावदेव नहि किन्तु, जगति नैतादृशं किमपि कार्य विद्यते, यत्तां लेखनीमन्तरैव भवेत्। अतो निर्गुणिनो नराः कथं लेखनीतुल्या? इति। ततो धनपालेन विदुषा प्रोक्तं यत् 'रक्षासमानाः किल ते मनुष्याः' इति। वादी रक्षामपि मण्डयन्नाऽऽह-तस्यामपि बहवो गुणास्तथाहि - मूडकमध्ये क्षिप्ता, करोम्यहं सकलधाब्यरक्षाम् । द्राङ् मां वन्दते मनुजो, मुखशुद्धिकरी सुगब्धाऽऽढया ||२६|| इयं हि रक्षा संसारे नहि निरुपयोगिनी, यतः सहस्रशः स्त्रीपुरुषैर्भोजनान्ते स्वोच्छिष्टपात्राणि रक्षयैव शुद्धीक्रियन्ते। प्रभुभक्तिलीना विरक्तयोगिनो स्वाङ्गेषु रक्षाधारणयैव महायोगिनो निगद्यन्ते। तेषां धूनिकासु रक्षैव पवित्रभूता मन्यते। संसारवासिनां जीवानां जीवनभूतधान्यादिसुरक्षणं रक्षैव विदधाति। मृत्पात्राणि च प्रायशो रक्षाया मेलनेनैव पौष्ट्यं दधते। अत एव नानागुण1. आहार। 2. शीघ्रं। 297
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy