________________
श्री बृहद्विद्वद्गोष्ठी हेतवो विद्यन्ते। एवं भूतायां दशायां यत्किमपि साधु कार्य करिष्यथ, तदेव सार्धमायास्यतीति निश्चयः। अतो न गुणहीनाः पुरुषा मक्षिका समानाः।
अथ पुनरपि पण्डितो बभाण-यद्येवं तर्हि 'मनुष्यरूपेण भवन्ति वृक्षाः' इत्यवगन्तव्यम्। वादी तु तमपि मण्डयन्नाह - __ छायां कुर्वन्ति ते लोके, ददते फलपुष्पकम् । पक्षिणां च सदाऽऽधाराः, गृहादीनां च हेतवः ||२२||
किञ्च वृक्षा उष्णकालीनभयङ्करतापं, चातुर्मास्ये भूमिबाष्पजलधाराप्रादुर्भूतदुःसहवेदनां, वने सर्वत्र प्रसृतदावानलपीडां, छेदनभेदनताडनादिदुःखं सहित्वापि परेभ्यः सुस्वादुमिष्टानि फलानि प्रददते। पृथक् पृथक् रोगोपशान्तये यावन्तो वृक्षाणामवयवा हितकृतः, न तावन्तोऽन्येषाम्। सञ्जीविनी-कुष्ठविनाशिनीप्रभृतिगुटिका वृक्षजात्यैव निर्मीयन्ते। उत्तमोत्तमवाद्यानामानन्दो वृक्षरेव बोभवीति। अतो गुणहीनाः कथं वृक्षवन्मान्याः? अथ पुनरपि धनपालो गुणविहीनान् 'मनुष्यरूपेण तृणोपमानाः' इति व्याजहार। प्रतिपक्ष्यपि तृणं पक्षीकृत्याऽभणत्
गवि दुग्धं रणे ग्रीष्मे, वर्षाहेमन्तयोरपि । नृणां त्राणं तृणादेव, तत्समत्वं कथं भवेत्? ||२३||
किं च संसारे सर्वानेव प्राणिनस्तृणान्येव गोपायन्तीति निश्चयः, यद्येकस्मिन्नेवाब्दे तृणानि न प्रादुर्भवेयुस्तीसंख्याः प्राणिनो नियेरन्। देवायतनादिनिर्माणक्रियादिकं सर्व तृणसाहाय्येनैव जायते। यदि तृणानि न भवेयुस्तहि सुधामयं मधुरं पयोदध्यादिकं कुतो लभ्येत? किं बहुना तृणं विना संसारे किमपि कार्य न सिध्यति। अत एव
तृणं चाऽहं वरं मन्ये, नरादनुपकारिणः ।
296