________________
श्री बृहद्विद्वद्गोष्ठी अप्रमादमनालस्यं, पञ्च शिक्षेत वायसात् ||१८||
युद्धं च प्रातरुत्थानं, भोजनं सह बन्धुभिः । स्त्रियमापद्गतां रक्षेच्चतुः शिक्षेत कुक्कुटात् ||१९||
अथ पुनरपि धनपालेनाऽवाचि-यद्येवं तर्हि 'मनुष्यरूपाः खलु मक्षिकाः स्युः' इत्येव स्वीक्रियताम्। श्रुत्वैवं वादिनापि मक्षिकापक्षमाश्रित्याऽभ्यधायि -
सर्वेषां हस्तयुक्त्यैव, जनानां बोधयत्यसौ । ये धर्म नो करिष्यन्ति, घर्षयिष्यन्ति ते करी ||२०||
किञ्च निर्गुणा उपकारशून्याः, मक्षिकास्तु सर्वेषामुपकारकर्त्यः। तदीयमधुनोऽमृतवन्माधुर्यम्, तच्च रोगं विनाशयति, बलञ्च वर्द्धयति। मक्षिका अपि स्वहस्तघर्षणयुक्त्यैव जनान् बोधयन्तियद् ये पुमांसो लक्ष्मी केवलं सञ्चयन्त्येव, न परोपकाराय न च स्वभोगाय व्ययीकुर्वते, ते चाऽन्तकाले वयमिव हस्तौ घर्षयन्त एवाऽस्माद् भवाद् मृत्वा भवान्तरेऽपि रिक्तहस्ता एवाऽवशिष्यन्ते। अतः कृपणो मा भूत्, यत्किमपि लब्धं तत्परोपकाराय निजभोगाय च व्ययीकुरुत, सद्गुणोपार्जनाय च सोद्यमा भवत। यतश्चैकैकगुणमन्तरापि पुमान् सर्वत्राऽनादरदृष्ट्यैव विलोक्यते। तथा चोक्तम्राजा धर्मविना द्विजः शुचिविना ज्ञानं विना योगिनः, कान्ता सत्यविना हयो गतिविना भूषा च ज्योतिर्विना। योद्धा शूरविना तपो व्रतविना छन्दो विना गीयते, भ्राता स्नेहविना नरो विभुविना शीघ्रं बुधेस्त्यज्यते।।२१||
अतो भो जनाः! इदं सम्यक्तया निबोधत-यद् शरीरेण सह रोगः, सम्पत्त्या विपत्तिः, जन्मना मृत्युः, संयोगेन वियोगः, सुखेन दुःखम्, तारुण्येन च वार्धक्यम्, इत्थं संसारे विविधा विनाशकारका
295