SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ___ श्री बृहद्विद्वद्गोष्ठी शीतिलक्षयोनिषु भ्राम्यन्तोऽपि नैतादृशमवसरं लभन्ते। अतः सर्वोपाधिं त्यक्त्वा मुख्यत्वेन धर्म एव कर्त्तव्यः, क्षणमात्रमपि निष्फलं न गमयितव्यमित्येव पुंसो मुख्यं कर्म धर्मश्च। अतो न निर्गुणानां ताम्रचूडसाम्यम्। ___अथ कश्चिदवसरज्ञो विपश्चिदुपर्युक्तमनुमोदयन्नाह-यत् सत्यमेव विदुषो वचः। यतः 'आहारनिद्राभयमैथुनं च, सामान्यमेतत्पशुपक्षिनृणाम्' किञ्च मनुष्यापेक्षयाऽपि पशुपक्षिणश्चैताः क्रियाः समर्यादं सावधानतया समाचरन्तीति। तथाहि-तेऽखाद्यं न खादन्ति, अपेयं न पिबन्ति, स्वल्पनिद्रालवो भवन्ति, भयजनकगहनारण्येष्वपि निर्भयाः समयं व्यत्ययन्ते, अखिलवर्षे च द्वित्रिचतुर्वारमेव कामं कामयन्ते। अत एव तेषु सुस्वास्थ्यं नानाविधप्रशस्यगुणाश्चोत्पद्यन्ते। अतः पशुपक्षिणोऽपि संसारे गुणिनश्चोपकारकाश्च वर्तन्ते, इदं च पूर्वोक्तसंवाद एव सम्यक् सूचयति। अतो मनुष्यैः स्वमनुष्यत्वसम्पादनाय पशुपक्षिभ्योऽपीमे गुणा अवश्यं शिक्ष्या एव। यथा - प्रभूतमल्पकार्यं वा, यो नरः कर्तुमिच्छति । सर्वारम्भेण तत्कुर्यात्, सिंहादेकं प्रकीर्तितम् ||१४|| सर्वेन्द्रियाणि संयम्य, बकवत्पतितो जनः । कालदेशोपपन्नानि, सर्वकार्याणि साधयेत् ||१५|| बहाशी स्वल्पसन्तुष्टः, सुनिद्रः शीघ्रचेतनः । प्रभुभक्तश्च शूरश्च, ज्ञातव्या षट् शुनो गुणाः ||१६|| अविश्रामं वहेभारं, शीतोष्णं च न विन्दति । ससन्तोषस्तथा नित्यं, त्रीणि शिक्षेत गर्दभात् ||१७|| गूढमेथुनधाष्टर्ये च, काले चालयसङ्ग्रहम् । 294
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy