________________
श्री बृहद्विद्वद्गोष्ठी पश्चिमायां रात्रौ द्विद्विचतुश्चतुर्घटिकानन्तरं स्वग्रीवामुच्चैः कुर्वाणा वदन्ति -
संसारे बहुरोगशोकजनके सारे महानर्थदे, तिर्यक्त्वामरनारकादिगतिषु श्रेष्ठं तथा दुर्लभम् । भो लोकाः! सुकृतोद्यता भवत वो लब्धं भवं मानुषं, मोहान्धाः प्रसरत्प्रमादवशतो माऽऽहार्य मा हार्यताम् ||१३|| __किञ्च ताम्रचूडवचनं चाकर्ण्य केचन भगवद्ध्यानलीनाः, केचन निजविद्याभ्यासलीनाः, केचित्प्रभुभजनलीना निजं निजं मानुषं जनुः सार्थयन्ति। अत एवाऽस्मिन् जगति ताम्रचूडोऽप्युपदेशकः। सोऽहर्निशं मनुजान् सचेतयति-यद् भो लोकाः! आलस्यं समुज्झित्य सदोद्यमिनो भवत, प्रासकालं च सफलयत। ये पुमांसः प्रासाऽवसरं समुपेक्षन्ते, ते तून्नतेरुच्चसिंहासने स्थातुमनों एव। गते चाऽवसरे ते राज्ञीवत् पश्चात्तापभाजो भवन्तीति न सन्देहः। तथाहि -
अथाऽऽसीत् कस्यचिद्राज्ञः षष्ट्यधिकस्त्रीशतत्रयी। ततो राजा देशान्तरं गत्वा यस्मिंश्च दिने प्रतिनिवृत्य गृहमागमत्, तद्दिने सर्वपाश्चात्याया राज्या वार आसीत्। अतः स्वदासीः संबोध्य साऽचकथत-यदहं शये, यदा हि राजाऽऽगच्छेत्तदा त्वं मां जागरयः। अथ यदा नृपतिराजगाम तदा ता दास्यो भयं लात्वा तां राज्ञी नाऽजागरयन्। राजा तु जगाम, राज्ञी चोत्थायाऽपृच्छत्किं राजा समाजगाम?, ताश्च प्रोचुः 'ॐ' किञ्च, वयं सभया भवतीं नाऽजागरयाम। सा तु राज्ञी बहु रुरोद पश्चात्तताप च। इत्थमेव ये प्राप्तसमयं गमयन्ति, ते पश्चात्तापभाजो भवन्ति, ये दुर्लभं मनुष्यजन्म लब्ध्वा धर्म विनैव भवं गमयन्ति, ते चतुर1. जन्म। 2. जागृ-प्रेरक २.पु.ए.। 3. विस्मयबोधक-अव्यय।
293