________________
श्री बृहद्विद्वद्गोष्ठी
अथ धनपालो गुणरिक्तान् 'मनुष्यरूपेण भवन्ति काकाः ' इत्यगादीत्। प्रतिवादी काकमपि मण्डयन्नाह
-
"
प्रियं दूरगतं गेहे प्राप्तं जानाति तत्क्षणात् । न विश्वसिति कञ्चापि, काले चापल्यकारकः ||११||
काचन युवतिरेकं काकं जाम्बूनदपञ्जरे प्रक्षिप्य निजगृहाङ्गणस्थेद्रौ प्रोच्चिक्षेप । अथ कदाचित्तस्याः सखी पर्यपृच्छत् यल्लोके शुकसारिकादिपक्षिणस्तु बहवो जनाः परिपालयन्ति, किन्तु न कोऽपि काकम्, नहि क्षुद्रपक्षिभिः गृहशोभा । अथ युवतिः समुत्ततार
अत्रस्थः सखि ! लक्षयोजनगतस्यापि प्रियस्याऽऽगमे, वेत्त्याख्याति च धिक् शुकादय इमे सर्वे पठन्तः शठाः । मत्कान्तस्य वियोगरूपदहनज्वालावलेश्चन्दनं, काकस्तेन गुणेन काञ्चनमये व्यापारितः पअरे ||१२||
अर्थात् - अयं काको लक्षयोजनगतस्यापि मम भर्त्तुरागमनं जानाति, आख्याति च। अतः शुकादीन् धिक्, यतोऽमी शुकादयः पठनचतुरा न तु प्रियवार्त्ताऽऽख्यानकाः। अयं काको मम भर्तुर्वियोगाग्निज्वालायै चन्दनसमः, यथा घर्मार्त्तं पुरुषं चन्दनं स्वशैत्येन शीतयति, तथैवाऽयं काको मद्भर्त्तृवियोगाऽग्निजायमानबहुशोकदुखात्तां मां भत्तृशुभाऽऽख्यानकेन शीतलीकुरुते । अत एव कारणान्मयाऽसौ काकः स्वर्णमये पञ्जरे क्षिप्त इति ।
अथ धनपालो विज्ञतमः पुनरपि निर्गुणान् 'मनुष्यरूपेण हि ताम्रचूडाः' इत्यभिधत्ते स्म । प्रतिपक्षी तानपि प्रशंसयन्नाह - नैतदपि भवत्कथनं रुचिकरम्, यतस्तेऽपि सूपदेशकार्यं कुर्वते, ते
1. वृक्षः।
292