________________
__ श्री बृहद्विद्वद्गोष्ठी
सारमेया हि येषां दानशून्यौ करो, धर्मवचनश्रवणशून्ये श्रुती, असत्योद्गाराऽपवित्रमास्यम्, साधुदृष्टिशून्ये दृष्टी, तीर्थमार्गरजःशून्यावङ्घी, अन्यायोपार्जितवित्तपूर्णमशुचिकमुदरम्, तेषां पिशितमपि नाऽदन्ति। तथा ते शुभाऽशुभसूचकान्यङ्कान्यपि कुर्वते, इत्यादि श्वस्वपि बहवो गुणाः।।
अथ धनपालो निर्गुणान्नरान् 'मनुष्यरूपेण खराश्चरन्ति' इत्याह। ततः प्रतिपक्षी खरं पक्षी-कृत्याऽवक्
शीतोष्णं नेव जानाति, भारं सर्वं दधाति च ।
तृणभक्षणसन्तुष्टः, प्रत्यहं भद्रकाकृतिः ||८|| किञ्च यात्रादिकार्येषु खरध्वनिर्मङ्गलहेतुः। यः कश्चन पुमान् तद्ध्वनिशकुनं विमृश्य कार्य विधत्ते, स स्वकार्ये साफल्यं लभतेऽतो निर्गुणिनो नैव रासभतुलना। __ श्रुत्वैवं धनपालोऽपि निर्गुणान् 'मनुष्यरूपेण भवन्ति चोष्ट्राः' इत्यवादीत्। प्रतिवादी, उष्ट्र मण्डयन्नाह -
वपुर्विषमसंस्थानं, कर्णज्वरकरो रवः । करभस्याशुगत्येव, छादिता दोषसंहतिः ||९|| एकस्यां घटिकायां, योजनगामी सदा नृपतिमान्यः । भारोदहनसमर्थः, कथं समो निर्गुणैः सार्धम् ||१०||
किञ्च जगति शीघ्रगमनमप्युत्तमो गुणः। यो हि गमनालसस्तस्य कार्यमपि शिथिलम्, यद्यपि सर्वत्र सवैरेव चलनैः कार्य क्रियते, तथापि प्रतिकार्येषु भूरिशः शीघ्रगमनस्यैवाऽऽवश्यकत्वम्। किञ्चोष्ट्रोऽत्तुमपि स्वामिनं न बहु पीडयति, सामान्येनैव भोजनेन सन्तुष्यति। निर्गुणिनो नरादुष्ट्रा लक्षतोऽधिकाः। 1. समूह।
291