Book Title: Charitra Saptakam
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
श्री हरिबलधीवर-चरित्रम् अथ हरिबलो निजस्त्रीभ्यां सत्रा प्रेमवार्ता चकार। तदवसरे स दुर्मती राजाऽनङ्गज्वरपीडितोऽमन्दोन्मत्तो हरिबलगृहमाजगाम। समापतन्तं राजानं विज्ञाय हरिबलमवोचतां ते, स्वामिन्! भवान् गृहे रहसि स्थित्वा नौ चातुर्य साहसं च विलोकयतु, किं करोति स दुष्टो नृपः। श्रुत्वैवं सोऽपि तथैव विहितवान्। यदैव समायातस्तदैव द्वे अपि राज्ञे आदरपूर्वकं सन्मानं कृत्वा विष्टरादिकं च समर्प्य व्याहार्षिष्टाम्-राजन्! अस्मिन्नवसरे भवदागमने को हेतुः? इत्थं स्त्रीवचः समाकर्ण्य मूढमतिः स नृपतिर्विहसन् भृशमुल्लसमुद्वहन् ते चाह-अयि कामिन्यौ! किमतेन्न जानीथो युवां, वां समाह्वानायैव मे समागमः। अतो द्रुतमेव व्रजतम्, इत्थं राजकीयं वचः समाकर्ण्य द्वे अप्यावभाषाते-राजन्! न शोभतेऽदो वचो वक्तुं, त्वं हिं सेवकानां ताततुल्यः। अनर्थकृते पुरुषाय दण्डं दातुमर्हो भवान्। यदि च त्वमेवानथं कुर्यास्तर्हि त्वां को नाम निवारयेत्। देवस्त्रीवत् सुरूपवतीमपि परस्त्रियं दूरतः परिहरेत्। तत्रापि भृत्यस्त्रियं पुत्रीमेव पुत्रवधूमिव विशेषतया परिहरेत्। यो वै राजा स चाऽन्यायकुर्वती प्रजां दृष्ट्वा तस्यामुचितदण्डं दत्त्वा ततो निवर्तयेत् तां, यदि राजैव स्वयमन्यायं कुर्यात् तन्निवारयितुं को वाऽलं भवेत्, यो वै रात्रौ चौर्यनिवारकः स एव यदि चौरकर्म कुर्यात्, सत्यपि जले वह्नयुत्थापनके, सत्यपि भानौ तमोव्याप्तौ कमुपायं कुर्वीत। अतः किमिदं जातं त्वयि, यथावामीहसेऽस्मात्प्रयासात् नौ प्राणा विनश्येयुश्चेत्तावतापि स्वीयशीलं न विनाशयावः। यतः -
वरं शृङ्गोत्तुङ्गे गुरुशिखरिणः क्वापि विषमे, पतित्वायं कायः कठिनदृषदन्तर्विदलितः । वरं व्यस्तो हस्तः फणिपतिमुखे तीक्ष्णदशने,
वरं वह्रो पातस्तदपि न वरं शीलविलयः ||१|| 1. आसन। 2. वि+आ+ह=अद्यतनी ३पु.द्वि.। 3. राज्ञः सम्बन्धि। 4. उच्चपर्वतस्य।
344

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370