Book Title: Charitra Saptakam
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 362
________________ श्री हरिबलधीवर-चरित्रम् संसारस्वरूपम्। तथाहि - जा दव्वे होइ मई, अहवा तरुणीसु ख्वमईसु । ता जइ जिणवर धम्मे, करयलमनं ठिया सिद्धि ||१|| ____ अथ सर्वेऽपि ते पीतमद्या इव संसारसुखाभिलाषुका लोभवशं गता नववचांसि कुर्वन्तो जगर्जुः, कियन्तो नर्तनं, कियन्तो गानं, कियन्तश्च हास्यं कर्तुमारेभिरे। वह्नौ पतनायोत्सुका बभूवुः। इत्येवं दृष्ट्वा दयाईचेताः स हरिबलस्तदानीं व्यचिन्तयत्-यदपराधं चामुं कृत्वा निरयेकां गतिं लप्स्येऽतोऽधुना को विधेयो ममोपायः। यस्मात्सर्वे नरा निवर्तेरन्। पतेच्च केवलं वह्नौ मुख्योऽमात्यः। इत्येवं विचारयति हरिबले झटित्येव यमयाष्टिको दूतो हरिबलादीनाह-भोः! यावन्तो वै यूयं वह्निपतनायोत्सुका वर्तध्वे, ते समेऽपि यूयं किञ्चिदवतिष्ठध्वम्। मद्वचांसि च प्रतिशृणुध्वम्यद् यूयं फलाभिलाषुकास्तर्हि व्याकुलचेतसो मा भवत। यतो मे स्वामी यमो विषमः, अतो, यो राजातिमानितो भवेत्स एव पूर्व मया साधं वह्नौ पतेत्। ततो राजा, ततः प्रजादीत्थं दैविकं वचः शृण्वन् स मुख्योऽमात्यो मनस्येवं विचिन्तयति स्म-यदहं पूर्व गच्छामि तर्हि स्वमनोऽभीष्टफलं प्राप्नुयाम्, इत्येवं विचार्य सोऽमात्यो राजानमाह-स्वामिन्! यदि भवतामाज्ञा स्यात्तर्हि पूर्वतोऽहं गच्छेयं, राजाप्याह-यथेच्छं व्रज, इत्थं राजाज्ञया यथा कश्चित्स्वर्गसुखभोगाय गच्छेत्तथा स्वात्मानं कृतकृत्यं मन्यमानो मनसि हर्ष दधत् सोऽमात्यो यमयाष्टिकेन सह प्रज्वलितकृशानौ झम्पापातमकरोदेव भस्मीभूतः। इत्थं पापबुद्धिरमात्यो निजमनोरथाय यमराजगृहं सकष्टं जगाम। अथ गते तस्मिन् स राजा सरागः शलभ इव पावकपतनायोद्युतो बभूव। तदनीमेव जातकरुणो हरिबलो राजकरं गृहीत्वा निषिद्धवान्, निषिद्धश्च तमाह-हरिबल! 1. नरकस्य सम्बन्धिनी। 351

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370