Book Title: Charitra Saptakam
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
श्री हरिबलधीवर-चरित्रम् दयविपुलराज्यपरिपालकोऽप्यतिप्रियप्रजाप्रेमवान् राज्ञी त्रयीयुतो हरिबलोऽन्यनृपतितनया अपि परिणिनाय। यद्यपीश्वरो जनायाऽतुलं फलं ददाति, तथापि तत्फलं तज्जन्मन्येव न लभ्यते पुंसां, किन्तु जन्मान्तरे लभ्यत एव, तथैव हरिबलो जीवहिंसापरित्यागादतुलं फलमलभत। तथाहि सुधासुतासूत्रचामररत्नछत्रप्रभृतिवटदुमफलवत्प्रबलः शोभते स्म। ततो हरिबलो निजनियमादिपरिपालयन् कदाचिद् व्यचिन्तयत्- अहो क्व मे धीवरकुले जनिरधमत्वं दरिद्रत्वं च क्व चेयं राज्यसमृद्धिरेतत्सर्वमपि सर्वसम्पत्सुखादिप्रातिः, केवलं जीवदयात एव मेऽजनि। इत्थं शश्चनियमानुमोदं कुर्वन् नियमान विसस्मार। अथेत्थं गते कियति काले जातु हरिबलो व्यचिन्तयत्-यद् यो गुरुमा देशनामयं पीयूषमपाययत्। यत्कृपातश्चाहमिदानी समृद्धियुत इन्द्रोपमो वर्ते, स एव गुरुरिदानीं समायातु चेत् किमपि तं पृच्छामि। कृतकृत्यो भवामि। इत्येवं यावद्विचारयति तावदेव हरिबलध्यानाकर्षितः समायातो गुरुस्तं समाह्वयत्। सोऽपि समागतं गुरुमवगम्य जातचित्तातिहर्षों गुरुसमीपे गत्वा गुरुपादौ ववन्द। वन्दित्वा च तन्मुखारविन्दगलितदेशनाफलानि समसिस्वदत्। देशनां निशम्य प्रमुदितमनाः सप्रश्रयोऽवादीत्-अहो! सुकृतपोषिन्! भवत्प्रसादादेवाहमद्भुतलक्ष्मीभोक्ताऽभवम्। पूज्यवर! अहं तु पापात्मा सदा गर्दाश्चातो मयि दयां कुर्वन्तु दयावन्तो भवन्तः। विदधतुतरां मां मोक्षाधिकारिणं यद्धितं च तदुपदिशतु निजचेतसि स्थापयतु, मयि तुष्यतु। इत्यादि गदित्वा गुरुं प्रणनाम। पश्चाच्च सुकृते लग्नमनसं हरिबलं दृष्ट्वा गुरुर्बभाषे-राजन्! त्वमेव धन्यतमो यस्येतादृशी द्रढीयसी धर्मरतिः सुमतिः। संसारे भिन्नरुचिमन्तो जनास्तथाहि - 1. जन्म। 2. निरन्तर।
354

Page Navigation
1 ... 363 364 365 366 367 368 369 370