Book Title: Charitra Saptakam
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
श्री हरिबलधीवर - चरित्रम्
केचिद्भोजनभङ्गिनिर्भरधियः केचित्पुरन्ध्रीपराः, केचिन्माल्यविलेपनैकरसिकाः केचिच्च गीतोत्सुकाः । केचिद्यूतकथामृर्गव्यमदिरानृत्यादिबद्धादराः,
केचिद्वाजिगजोक्षयानरसिका धन्यास्तु धर्मे रताः ||१||
इत्थं द्वैविध्यमापन्नः स धर्मस्तत्रैको हि साधुधर्मो द्वितीयो गार्हस्थ्यधर्मश्च । तत्रापि निश्चलधर्ममूलं जीवदयैव । यश्चान्यो धर्मः सोऽपि तस्या एव विस्तारः । एवं च यो जीवदयाधर्मपरिपालनदक्षः स सर्वविरतिसाधुत्वपरिपालने रतिमीहते । किं च चारित्र्यमन्तरा दयापालनं सुरीत्या न संभवति । यश्च वै साधुधर्मपालनेऽशक्तः स पुमान् गार्हस्थ्यधर्मपरिपालनाय प्रावीण्यं लभते । सर्वधर्मापेक्षया केवलमेष एव समाराध्यो जीवदयाधर्मः । प्रमादमपहाय दयैव समाराधनीया। इत्यादि देशनां श्रुत्वा गुर्वन्तिके ससम्यक्त्वमणुव्रतमग्रहीत्। अन्यान्यपि व्रतानि यथाशक्ति गृहीत्वा निजगृहमाजगाम. यथा निर्धनो जनो मन्दारद्रुमं लब्ध्वा हर्षवान् बोभवीति, तथा हरिबलोऽपि गार्हस्थ्यधर्मं लब्ध्वा हर्षवान् बोभवाम्बभूव । सर्वस्वविनाशकानि नरकप्रदानि च सप्तव्यसनानि निजदेशाद्बहिः कृतवान्, निजामृततुम्बाच्च बहून् रोगिणो नीरोगान् विहितवान्, इत्यादि बहुविधपुण्यानि विधाय न्यायनैपुण्यधर्मैकच्छत्रराज्यं हरिबलोऽपालयत्।
अथ व्यतीते कियति समये हरिबलो निजगुरुं पुनः सस्मार । गुरुरपि सुसमयं विज्ञाय काञ्चनपुरोद्याने समाजगाम । हरिबलोऽपि सपरिवारो वन्दनाय प्रतस्थे । वन्दित्वा चोचितस्थाने समुपविश्य देशनां शुश्राव । गुरुरप्युपदिशति - राजन् ! त्वं जीवदयाप्रभावादेव सकलसमृद्धिको भूतः केवलं जीवोपकारादियत्फलं जातं । यच्च
•
1. पट्टराज्ञी। 2. शिकार। 3. भू यङलुप् परोक्ष।
355

Page Navigation
1 ... 364 365 366 367 368 369 370