Book Title: Charitra Saptakam
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 350
________________ श्री हरिबलधीवर - चरित्रम् धिपतिमदनवेगनाम्नो राज्ञोऽहं समाज्ञाङ्कितः सेवकः, स च निजसुताविवाहमहोत्सवं कर्त्तुमुद्यतो वर्त्तते । तदीयाज्ञां स्वीकृत्य लङ्काधिपतिविभीषणाय निमन्त्रणं दातुं गम्यते मया तत्र, कठिनातिकठिनं चैतत्कार्यं निखिलसभामध्ये मयैव स्वीकृतम् । कर्म चैतद्यदि मत्तो न स्यात्तर्हि प्रतिज्ञाभङ्गी भविष्यामि । श्रुत्वैवं स राक्षसश्चक्षुषी रक्तीकुर्वन् मामाह - रे मानव ! एतत्प्रतिज्ञासंसाधनाय नैवाऽस्ति कस्यापि सुलभा शक्तिः । न चैव महासागरसन्तरणाय मानवानां कर्म, तथापि तेऽहं काञ्चनैकां सुयुक्तिं वच्म्येव, यतो मामकं कार्यं सिद्धयेत्तावकं च। आकर्यैवं चाञ्जलिं बद्ध्वाहमभणम् भोः ! द्रागेव मां तां युक्तिं वक्तुकामो भवान् भवतु । मत्स्वामिकार्यसंसाधनाय यदेव त्वं वक्ष्यसि तदेवाहं कर्त्तुमुद्यतो वर्त्ते। श्रुत्वैव स राक्षसः प्रहर्षं प्रहर्षं क्षुधापीडितो बहुविधवैचित्र्यादि प्रदर्शयन् मामवोचत्- अयि मानुष! यदि लङ्कां गन्तुमनाः, यदि विभीषणं निमन्त्रयितुमनाः, यदि च निजस्वाम्याज्ञां विधातुमना स्तर्हि वनेऽस्मिन् याऽऽस्तेऽसौ काष्ठनिचयरचिताचिता, तस्यां पतित्वा द्रुतं म्रियस्व । मृतिमन्तरा लङ्कागमनाय मार्गान्तरं नास्ति । एवंभूतां राक्षसीयां युक्तिं श्रुत्वा पूर्वमनुत्सुकमना अभवम् । पश्चात्स्वामिकार्याय कृतघ्नोऽपि सेवको निजासूनपि समर्पयेत्। इति बहुधा विचिन्त्य प्रतिज्ञापूर्तये रक्षोवचसि विश्वासं कुर्वाणो वह्नौ पतितुमभ्यधावम्। पतित्वा च तत्र भस्मीभूतोऽभवम्। ततः स राक्षसो मद्भस्मनिचयमेकीकृत्य विभीषणाय समर्पयत् । मद्वृत्तान्तमचकथत् । स च मम स्वामिनि भक्तिं विलोक्य मयि समतुषत्। मद्भस्मनिचयं सुधया निषिच्य मां सजीवमकार्षीत् मदीयाद्भुतं रूपं चावलोक्य मह्यं कन्यकामेकां समर्पयत्। कन्यया साकं बहुमूल्यबहुविधवासोभूषणहस्त्यश्वखपासुलाद्यनेकवस्तुनिचयं समर्पयत्। परन्तु तत्सर्वमपि गृहीत्वाऽत्रागमनाय काठिन्यं निश्चित्य 339

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370