Book Title: Charitra Saptakam
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 326
________________ श्री हरिबलधीवर - चरित्रम् श्री हरिबलधीवर - चरित्रम् प्रभुवरवीरजिनेन्द्रं, दयालुमभिनम्य यतीन्द्रविजयेन । हरिबलधीवरचरितं क्रियते दयादर्शकं चित्रम् ||१|| अयि ! विदाङ्कुर्वन्तुतरां नितरां, सुहृदयाः, सज्जनमहोदयाः ! यदस्यामसारभूतायां जगत्यां भूरिशो धर्माः शास्त्रकृद्भिर्महर्षिभिभणिताः सन्त्येव सुतराम्, किन्तु तेषु 'मा हिंस्यात्सर्वभूतानि ' 'अहिंसा परमो धर्मः' 'सर्वेषु वै जीवदयाप्रधानम्' इत्यादि महतां महावाक्यैर्जीवदयाधर्मः कथित एव, स च कीदृशः ? कर्हि कर्त्तव्यः ? कथं कर्त्तव्यः?, इत्यादि जायमानायां, सुपृच्छायां, दृष्टान्तमन्तरा दान्तबोधस्याऽशक्यत्वादवश्यं किमपि दृष्टान्तं वक्तव्यमिति हृदि निधाय प्रकृते जीवदयाधर्मविषयिकां हरिबलधीवरकथामेव प्रब्रुवे तावत् । यामाकण्र्यैव निर्दयोऽपि सदयो जायतेतरामेव । सा चेत्थम् अस्ति भूरिरजतकनकादिपद्मालयापरिपूरितं काञ्चनपुरं सुपुरम्। तत्र च सकलसर्पत्ननृपतिसैनिक भीतिप्रदायको वसन्तसेनो राजा राज्यं कुर्वाणो निवसति स्म, तदीया च शचीसुरूपा वसन्तसेनानामधेया पट्टराज्ञी समजायत । अथ पुत्रादिरहितयोस्तयोर्बहुकालान्ते कदाचित् सकलमनोरथगुणसम्पन्ना वसन्तश्रीनाम्नी पुत्र्येका प्रादुर्बभूव, यां तरुणपुरुषचित्तोन्मादकर्त्री निर्वर्ण्य तज्जनकेन वसन्तर्त्तुमूर्त्तये तस्यै वसन्तश्रिये योग्ये वरे बहुगवेषितेऽपि योग्यः कथङ्कारमपि नालम्भि । 1. शत्रुः । 2. इन्द्राणी । 3. कामदेवः । 4. कथम् । 315

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370