Book Title: Charitra Saptakam
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 323
________________ श्री बृहद्विद्वद्गोष्ठी ताभ्यां तं प्रदत्तवान्, ततस्तपस्वी व्याजहार - 'भवदैश्वर्यं वीक्ष्यैव मम चेतसि भोगवासना प्रादुर्भूता, किन्तु नटनट्योरुपदेशान्मम चेतो वैपरीत्यं लेभे, मया हि ताभ्यामयमेवोपदेशोऽग्राहि यत्प्रायोऽधिकं वयस्तपसा क्षीणमेव, किञ्चेदानीं स्वल्पमेवावशिष्टं, तदपि भोगवासनाभिः किं विनाशयानि ?, अमुमेवोपदेशं गृहीत्वाऽऽभ्यां सर्वस्वभूतं निजैकमात्रं कम्बलमेवाऽऽर्पयम् । ततो नृपतिः कुमारमप्राक्षीत् त्वया हि किं ज्ञात्वाऽऽभ्यां हीरककटकद्वयं ददे ?, स चोवाच-'यदहं प्रत्यहं दुःखीभूतः, यतो भवान् मह्यं न किमपि व्ययार्थं दत्तेऽत एवाऽतीवदुःखीभूत्वाऽहं व्यचिन्तयम् कस्मिंश्चिद् दिने राज्ञे विषं दत्त्वा घातयिष्यामि । किन्त्वेतयोरुपदेशाद् मयैतदेव गृहीतम् - यद्राज्ञोऽधिकं वयस्तु गतमेव परन्त्विदानीं वार्धक्यमापन्नो हि कतिपयवर्षान्तेऽवश्यं मरिष्यत्येव, अतो जनकहत्ययाऽलम्'अस्माच्चैवोपदेशादहं हीरकवलयौ प्राददाम्।' अथाऽन्ते राजकुमारिकामपि तथैवाऽप्राक्षीत्-त्वया किमर्थममूल्यो हारस्ताभ्यां प्रादायि?, साप्यवादीत्- 'अहमिदानीं तारुण्यलावण्य-पूर्णाऽभवम्, भवांश्च द्रव्यव्ययभयान् मां न विवाहयति, मनोभवोऽधुना मां विधूनयति । अतोऽहं कामप्राबल्यवशात् प्रधानपुत्रेण सार्धं गन्तुकामाऽभूवम्। किञ्चैतयोरेवोपदेशान् मया विचिन्तितम् - यदाधिक्येन राज्ञोऽवस्था तु गतैव, अवशिष्टाया अप्यन्तः कदाचिद् भविष्यत्येव, अतः स्वल्पदिनेभ्यो राज्ञो नाम किमर्थं कलङ्कयानीत्यमूल्योपदेशो मया ताभ्यामेवोपात्तः, अत एव च मया बहुमूल्योऽपि हारस्ताभ्यामर्पितः। 'अयि पितृदेव ! 'तयोरुपदेश एव भवज्जीवितं यशश्च जुगोप । अतो भवतापि तदर्थं कोऽपि सर्वोत्तमपारितोषिको देय एव। ततो भूपोऽपि सर्वेषां समीचीनमुत्तरमाकर्ण्य सम्यग् हृदि विचार्य च किमपि सारभूतं पारितोषिकं दत्त्वा तौ विससर्ज । 1. कामः । 312

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370