________________
श्री बृहद्विद्वद्गोष्ठी ताभ्यां तं प्रदत्तवान्, ततस्तपस्वी व्याजहार - 'भवदैश्वर्यं वीक्ष्यैव मम चेतसि भोगवासना प्रादुर्भूता, किन्तु नटनट्योरुपदेशान्मम चेतो वैपरीत्यं लेभे, मया हि ताभ्यामयमेवोपदेशोऽग्राहि यत्प्रायोऽधिकं वयस्तपसा क्षीणमेव, किञ्चेदानीं स्वल्पमेवावशिष्टं, तदपि भोगवासनाभिः किं विनाशयानि ?, अमुमेवोपदेशं गृहीत्वाऽऽभ्यां सर्वस्वभूतं निजैकमात्रं कम्बलमेवाऽऽर्पयम् । ततो नृपतिः कुमारमप्राक्षीत् त्वया हि किं ज्ञात्वाऽऽभ्यां हीरककटकद्वयं ददे ?, स चोवाच-'यदहं प्रत्यहं दुःखीभूतः, यतो भवान् मह्यं न किमपि व्ययार्थं दत्तेऽत एवाऽतीवदुःखीभूत्वाऽहं व्यचिन्तयम् कस्मिंश्चिद् दिने राज्ञे विषं दत्त्वा घातयिष्यामि । किन्त्वेतयोरुपदेशाद् मयैतदेव गृहीतम् - यद्राज्ञोऽधिकं वयस्तु गतमेव परन्त्विदानीं वार्धक्यमापन्नो हि कतिपयवर्षान्तेऽवश्यं मरिष्यत्येव, अतो जनकहत्ययाऽलम्'अस्माच्चैवोपदेशादहं हीरकवलयौ प्राददाम्।' अथाऽन्ते राजकुमारिकामपि तथैवाऽप्राक्षीत्-त्वया किमर्थममूल्यो हारस्ताभ्यां प्रादायि?, साप्यवादीत्- 'अहमिदानीं तारुण्यलावण्य-पूर्णाऽभवम्, भवांश्च द्रव्यव्ययभयान् मां न विवाहयति, मनोभवोऽधुना मां विधूनयति । अतोऽहं कामप्राबल्यवशात् प्रधानपुत्रेण सार्धं गन्तुकामाऽभूवम्। किञ्चैतयोरेवोपदेशान् मया विचिन्तितम् - यदाधिक्येन राज्ञोऽवस्था तु गतैव, अवशिष्टाया अप्यन्तः कदाचिद् भविष्यत्येव, अतः स्वल्पदिनेभ्यो राज्ञो नाम किमर्थं कलङ्कयानीत्यमूल्योपदेशो मया ताभ्यामेवोपात्तः, अत एव च मया बहुमूल्योऽपि हारस्ताभ्यामर्पितः। 'अयि पितृदेव ! 'तयोरुपदेश एव भवज्जीवितं यशश्च जुगोप । अतो भवतापि तदर्थं कोऽपि सर्वोत्तमपारितोषिको देय एव। ततो भूपोऽपि सर्वेषां समीचीनमुत्तरमाकर्ण्य सम्यग् हृदि विचार्य च किमपि सारभूतं पारितोषिकं दत्त्वा तौ विससर्ज ।
1. कामः ।
312