________________
श्री बृहद्विद्वद्गोष्ठी च द्रव्यव्ययभयानिजकन्यामेव विवाहयति। ततः कदाचिदेको नटो नटी च तत्सभायां समाजगाम, स चाऽऽगत्यैव निजनाट्यदर्शनाय नृपं प्रार्थयामास। अथ राजापि साधु, कदाचिद् द्रक्ष्यामीति तं विससर्ज, किन्तु सा नटी मुहुर्मुहुरागत्य राजानं विज्ञपयति। भूपोऽपि तामुपेक्षते, परमन्ते नटी कदाचिद् मन्त्रिणं विज्ञपयामास-'यदि महाराजो मदीयं नाट्यं न पश्येत्तदहं व्रजानि, यतः स्वद्रव्यं खादन्त्या मे भूयांसि दिनानि व्यतीयुः' इत्येवं श्रुत्वा मन्त्री राजानं प्रार्थयते स्म स्वामिन्! भवान्नाट्यमवश्यं विलोकताम्, वयं च सर्वेभ्यः किञ्चित्किञ्चिद् दापयित्वा तां नटीं नटं च यथावत्सन्तोषयिष्यामहे। यदि च भवान्नाट्यं न द्रक्ष्यति तर्हि लोके महती भवतोऽपकीर्तिः स्यात्। ततो राज्ञापि मन्त्रिवचः स्वीकृतम्, नाट्यमपि प्रारेभे, यदा तस्या नाट्यं कुर्वत्या घटिकाद्वयावशिष्टायां रजन्यामपि किञ्चिदपि भूपतिः पारितोषिकं न ददाति, तावन्नटी नटमाह - घटिकेकाऽवशिष्टायां, रात्रौ श्रान्ता च मत्तनुः ।
नटी नटमथोवाच, तालं धैर्येण वादय ||१|| नटीवाक्यमाकर्ण्य नट आह - वीतेयं बहुधा रात्री, किश्चिन्मात्राऽवशिष्यते । नटस्तदा नटी प्रोचे, ताले भङ्गं हि नो कुरु ||२||
अथ तत्रैव कोऽपि तपस्वी नाट्यं विलोकयन्नासीत्, स च नटनट्योः प्रश्नोत्तरमाकण्यैव निजरत्नकम्बलं ताभ्यां समर्पयामास। स राजकुमारो हीरकादिजटितां निजकटकद्वयीं, सा राजकुमारिकापि च निजकण्ठस्थहीरकमयं सुन्दरममूल्यं सुहारं प्रददौ। राजा चैवं सर्वमवलोक्य साश्चर्यो भूत्वा सर्वतः प्राक् तपस्विनमेव प्रोचिवान्यद् भवत्पार्श्वे त्वेक एव कम्बल आसीत्, तद् भवान् किं ज्ञात्वा
1. कडा।
311