________________
श्री बृहद्विद्वद्गोष्ठी अथ मन्त्रिपुत्रेण साधं निजकन्यां विवाहयित्वा, राजकुमाराय राज्यं दत्त्वा, स्वयं च वैराग्यवान् भूत्वा निजावशिष्टमायुश्चाध्यात्मविचारे नियोजयामासेति शम्। ___अयि विदुषां वरिष्ठाः! सर्वोऽयं मे प्रयासस्तेषामेवोपयोगी हितकृच्च स्यात्, ये गुणेष्वनुरागवन्तो गुणसम्पादनायाऽहर्निशं प्रयत्नवन्तश्च। ये च स्वस्य परेषां चाऽहितकृतो विघ्नमात्रसन्तोषवन्तः कृतघ्नाः कार्याऽकार्यविमर्शशून्या निर्गुणाश्च सन्ति, तेषां स्वभावपरिवर्तनाय तु शास्त्रकृतोऽपि न कमप्युपायं विदन्तीति। यथा हि -
शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो, नागेन्द्रो निशिताकुशेन समदो दण्डेन गोगर्दभौ ।
व्याधिर्भेषजसद्ग्रहश्च विविधेर्मन्बप्रयोगैर्विषं, सर्वस्योषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् || ___ अस्तु। अथेत्थं धनपालविदुषः सयुक्तिकमखण्डनीयं परिणामसुन्दरं सर्वोपयोगि चोत्तरं श्रावं श्रावं, सर्वे ते सभ्यविद्वांसो विद्वद्वरीयांसं तं धनपालपण्डितं धन्यवादास्पदं विदधुः। स विद्वज्जनगोष्ठिकाऽऽरामविहरणो नृपतिचक्रचूडामणिमहाराजाधिराजो भोजभूपतिश्च सादरं ससन्मानं तं धनपालविद्वांसं महता पारितोषिकदानेन सच्चक्रे। इत्यलमतिविस्तरेण।
|| व्याख्यानवाचस्पत्युपाध्यायसंवर्द्धिता
बृहद्विद्वगोष्ठी समाप्ता ||
313