Book Title: Bhagwati Sutram
Author(s): N V Vaidya
Publisher: Godiji Jain Temple and Charities

View full book text
Previous | Next

Page 55
________________ पञ्चदशं गोशालकाख्यं शतकम् 5 - अनेन चेदं सूचितं - 'समत्तपइने नाहं समणो होहं अम्मापियरंमि जीवंते ' त्ति समाप्ताभिग्रहः इत्यर्थः, ' चिच्चा हिरण्णं चिच्चा सुवण्णं चिच्चा बलं ' इत्यादीनि, ' पढमं वासं' ति विभक्तिपरिणामात् प्रव्रज्याप्रतिपत्तेः प्रथमे वर्षे, 'निस्साए ' त्ति निश्राय निश्रां कृत्वेत्यर्थः, ' पढमं अंतरावासं ' ति विभक्तिपरिणामादेव प्रथमेऽन्तरं अवसरो वर्षस्य - वृष्टेर्यत्रासावन्तरवर्षः, अथवाऽन्तरेऽपि - जिगमिषत क्षेत्रमप्राप्यापि यत्र सति साधुभिरवश्यमावासो विधी - यते सोऽन्तरावासो - वर्षाकालस्तत्र, 'वासावासं ' ति वर्षासु वासः चातुर्मासिकमवस्थानं वर्षावासस्तमुपागतः - उपाश्रितः । ' दोच्चं वासं ' ति द्वितीये वर्षे, ' तंतुवायसाल ' त्ति कुविन्दशाला, 'अंजलिमउलियहत्थे ' त्ति अअलिना मुकुलितौ – मुकुलाकारौ कृतौ हस्तौ येन स तथा, 'दव्वसुद्धेणं' ति द्रव्यं - ओदनादिकं शुद्धं - उद्गमादिदोषरहितं यत्र दाने तत्तथा तेन, 'दायगसुद्धेणं' ति दायकः शुद्धो यत्राशंसादिदोषरहितत्वात् तत्तथा तेन, एवमितरदपि, 'तिविहेणं' ति उक्तलक्षणेन त्रिविधेन, अथवा त्रिविधेन कृतकारितानुमतिभेदेन त्रिकरणशुद्धेन - मनोवाक्कायशुद्धेन, 'वसुहारा बुटु' त्ति वसुधारा - द्रव्यरूपा धारा वृष्टा, 'अहो दाणं' ति अहोशब्दो विस्मये, 'कयत्थे णं' ति कृतार्थःकृतस्वप्रयोजनः, 'कयलक्खणे' त्ति कृतफलवलक्षण इत्यर्थः, 'कया णं लोग' त्ति कृतौ शुभफली अवयवे समुदायोपचारात् लोकौ - इहलोक परलोकी, 'जम्मजीवियफले' त्ति जन्मनो जीवितव्यस्य च यत्फलं तत्तथा, 'तहारूवे साहु 'साहुरूवे 'ति तथारूपे तथाविधे अविज्ञातवताविशेष इत्यर्थः, 'साधौ ' श्रमणे " साधुरूपे ' साध्वाकारे, 'धम्मंतेवासि ' त्ति शिल्पादिग्रहणार्थमपि शिष्यो भवतीत्यत उच्यते—धर्मान्तेवासी, 'खज्जगविहीए' त्ति खण्डखाद्यादिलक्षण - 20 भोजनप्रकारेण, 'सव्वकामगुणिएणं ' ति सर्वे कामगुणाः - अभिलाषविषयभूता रसादयः सञ्जाता यत्र तत्सर्वकामगुणितं तेन, 'परमन्त्रेणं' ति परमानेन 15 , ४ - - 49

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90