Book Title: Bhagwati Sutram
Author(s): N V Vaidya
Publisher: Godiji Jain Temple and Charities

View full book text
Previous | Next

Page 59
________________ पञ्चदशं गोशालकाख्यं शतकम् 53 ' महया अमरिस' त्ति महान्तममर्षम् ' एवं वावि 'ति एवं चेति प्रज्ञापकोपदर्श्यमानकोपचिह्नम्, अपीति समुच्चये । (सू. ५४३-४६ ) सू. ५४७ - ४९ – आनन्दाय गोशालोक्तो वणिग्दृष्टान्तः । तेजः शक्तिः । नोदनानिषेधः । ८ 6 महं उवमियं ' ति मम सम्बन्धि महद्वा विशिष्टं - औपम्यमुपमा दृष्टान्तः 5 इत्यर्थः, ' चिराईयाए अद्धाए ' त्ति चिरमतीते काले, 'उच्चावय ' त्ति उच्चावचा-उत्तमानुत्तमाः, ' अत्थत्थि ' त्ति द्रव्यप्रयोजनाः, कुत एवम् ? इत्याह-' अत्थलुद्ध ' त्ति द्रव्यलालसाः, अत एव ' अत्थगवेसिय ' त्ति, अर्थगवेषिणोऽपि कुत इत्याह- ' अत्थकंखिय ' त्ति प्राप्तेऽप्यर्थेऽविच्छिन्नेच्छाः, ' अत्थपिवासिय ' त्ति अप्राप्तार्थविषयसआत तृष्णाः, यत एवमत एवाह - 10 ' अत्थगवेसणयाए ' इत्यादि, 'पणियभंडे ' त्ति पणितं - व्यवहारस्तदर्थं भाण्डं, पणितं वा-क्रयाणकं तद्रूपं भाण्डं न तु भाजनमिति पणितभाण्डं, ' सगडींसागडेणं ' ति शकट्यो - गन्त्रिकाः, शकटानां गन्त्रीविशेषाणां समूहः शाकटं, ततः समाहारद्वन्द्वोऽतस्तेन, 'भत्तपाणपत्थयणं' ति भक्तपानरूपं यत्पथ्यदनं— शम्बलं तत्तथा, ' अगामियं' ति अग्रामिकां अकामिकां वाअनभिलाषविषयभूताम्, 'अणोहियं' ति अविद्यमानजलौधिकामतिगहनत्वेना विद्यमानोहां वा, ‘छिन्नावायं त्ति व्यवच्छिन्नसार्थघोषायापातां, 'दहिमद्धं ति दीर्घमार्गी दीर्घकालां वा 'किन्हं किन्होंभासं' इह यावत्करणादिदं दृश्यं - 'नीलं नीलोभासं हरियं हरिओभासं' इत्यादि, व्याख्या चास्य प्राग्वत्, 'महेगं वम्मीयं 'ति महान्तमेकं वल्मकिं, 'वप्पुओ' त्ति वपूंषि - 20 शरीराणि शिखराणत्यिर्थः, 'अब्भुग्गयाओ' त्ति अभ्युद्गतान्यभ्रोद्गतानि वोच्चानीत्यर्थः, ' अभिनिसढाओ ' त्ति अभिविधिना निर्गताः सटा:तदवयवरूपाः केशरिस्कन्धसटावद् येषां तान्यभिनिःशटानि, इदं च तेषां - 15 "

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90