Book Title: Bhagwati Sutram
Author(s): N V Vaidya
Publisher: Godiji Jain Temple and Charities

View full book text
Previous | Next

Page 64
________________ 38 श्रीमद्भगवतीसूत्रम् य कम्मंसि' त्ति त्रीश्च कर्मभेदान् , “खवइत्त' त्ति 'क्षपयित्वा ' अतिवाह्य । ' से जहे ' त्यादिना महाकल्पप्रमाणमाह, तत्र ‘से जहा व ' त्ति महाकल्पप्रमाणवाक्योपन्यासार्थः, 'जहिं वा पज्जुवत्थिय' त्ति यत्र गत्वा परिसामस्त्येन उपस्थिता- उपरता समाप्ता इत्यर्थः, 'एस णं अद्ध ' ति एष ॐ गङ्गाया मार्गः, 'एएणं गंगापमाणेणं' ति गङ्गायास्तन्मार्गस्य चाभेदाद्गङ्गाप्रमाणेनेत्युक्तम्, 'एवामेव ' त्ति उक्तेनैव क्रमेण, 'सपुव्वावरेणं' ति सह पूर्वेण गङ्गादिना यदपरं महागङ्गादि तत् सपूर्वापरं तेन भावप्रत्ययलोपदर्शनात् सपूर्वापरतयेत्यर्थः। 'तासिं दुविहे ' इत्यादि, तासां गङ्गादीनां गङ्गादिगतवालुकाकणादीनामित्यर्थः, विविध उद्धारः उद्धरणीयद्वैविध्यात्, 'सुहुम10 बोंदिकलेवरे चेव ' त्ति सूक्ष्मबोन्दीनि-सूक्ष्माकारॊणि कलेवराणि-असङ्ख्यात खण्डीकृतवालुकाकणरूपाणि यत्रोद्धारे स तथा, 'बायरबोंदिकलेवरे चेव' त्ति [ग्रन्थानम् १४००० ] बादरबोन्दीनि-बादराकाराण कलेवराणिचालुकाकणरूपाणि यत्र तथा, 'ठप्पे ' त्ति न व्याख्येयः, इतरस्तु व्याख्येय इत्यर्थः, 'अवहाय ' त्ति अपहाय-त्यक्त्वा, ‘से कोटे' त्ति स कोष्ठो15 गङ्गासमुदायात्मकः, 'खीणे' त्ति क्षीणः, स चावशेषसद्भावेऽप्युच्यते, यथा क्षीणधान्यं कोष्ठागारमत उच्यते, 'नीरए ' त्ति नीरजाः स च तद्भूमिगतरजसामप्यभावे उच्यते इत्याह-'निल्लेवे ' त्ति निर्लेपः, भूमिभित्त्यादिसश्लिष्ट. सिकतालेपाभावात् , किमुक्तं भवति ? 'निट्टिए ' त्ति निष्ठितः- निरवयवीकृत इति, ‘सेत्तं सरे' त्ति अथ तत्तावत्कालखण्डं सरः-सरःसझं भवति 20 मानससझं सर इत्यर्थः, ‘सरप्पमाणे ' त्ति सर एवोक्तलक्षणं प्रमाणंवक्ष्यमाणमहाकल्पादेर्मानं सरःप्रमाणं, ‘महामाणसे' ति मानसोत्तरं, यदुक्तं चतुरशीतिर्महाकल्पशतसहस्रार्णाति तत्प्ररूपितम्, अथ सप्तानां दिव्यादीनां प्ररूपणायाह-'अणंताओ संजूहाओ' त्ति अनन्तजीवसमुदायरूपानिकायात् , 'चयं चइत्त 'त्ति च्यवं च्युत्वा - च्यवनं कृत्वा, चयं वा देहं, 'चहत्त 'त्ति

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90