Book Title: Bhagwati Sutram
Author(s): N V Vaidya
Publisher: Godiji Jain Temple and Charities
View full book text
________________
पञ्चदशं गोशालकाख्यं शतकम् 'पारितावणियं' ति पारितापनिकी क्रियां पुनः कुर्यादिति । 'अणगाराणं' ति सामान्यसाधूनां, 'खंतिक्खम 'त्ति क्षान्त्या-क्रोधनिग्रहेण क्षमन्त इति क्षान्तिक्षमाः, 'थेराणं' ति आचार्यादीनां वयःश्रुतपर्यायस्थविराणाम् । 'पडिचोयणाए ' त्ति तन्मतप्रतिकूला चोदना कर्तव्यप्रोत्साहना प्रतिचोदना तया, 'पडिसाहरणाए' त्ति तन्मतप्रतिकूलतया विस्मृतार्थस्मारणा तया, 5 किमुक्तं भवति ?-'धम्मिएण' मित्यादि, 'पडोयारेणं ति प्रत्युपचारेण प्रत्युपकारेण वा, ‘पडोयारेउ' त्ति (प्रत्युपचारयतु ' प्रत्युपचारं करोतु, एवं प्रत्युपकारयतु वा, मिच्छं विपडिवन्ने' त्ति मिथ्यात्वं म्लेच्छ्यं वा-अनार्यत्वं विशेषतः प्रतिपन्न इत्यर्थः। 'सुटु णं' ति उपालम्भवचनम्, 'आउसो' त्ति हे आयुष्मन् !- चिरप्रशस्तजीवित ! 'कासव ' त्ति काश्यपगोत्रीय ! 10 'सत्तमं पउपरिहारं परिहरामि' त्ति सप्तमं शरीरान्तरप्रवेशं करोमीत्यर्थः, 'जोव आई' ति येऽपि च, 'आई' ति निपातः, 'चउरासीइं महाकप्पसयसहस्साई' इत्यादि गोशाल कसिद्धान्तार्थः स्थाप्यो, वृद्धैरप्यनाख्यातत्वात्, आह च चूर्णिकारः - संदिद्धत्ताओ तस्स सिद्धंतस्स न लक्खिज्जइ' ति, तथाऽपि शब्दानुसारेण किश्चिदुच्यते- चतुरशीति- 15 महाकल्पशतसहस्राणि क्षपयित्वति योगः, तत्र कल्पा:- कालविशेषाः, ते च लोकप्रसिद्धा अपि भवन्तीति तद्व्यवच्छेदार्थमुक्तं महाकल्पा वक्ष्यमाणस्वरूपास्तेषां यानि शतसहस्राणि-लक्षाणि तानि तथा, 'सत्त दिव्वे ' त्ति सप्त 'दिव्यान् । देवभवान् , 'सत्त संजूहे' त्ति सप्त संयूथान- निकायविशेषान्, 'सत्त सन्निगन्भे' त्ति सज्ञिगर्भान- मनुष्यगर्भवसतीः, एते च तन्मतेन 20 मोक्षगामिनां सप्तसान्तरा भवन्ति वक्ष्यति चैवैतान् स्वयमेवेति, ‘सत्त पउदृपरिहारे ' त्ति सप्त शरीरान्तरप्रवेशान्, एते च सप्तमसज्ञिगर्भानन्तरं क्रमेणावसेयाः, तथा पंचे' त्यादाविदं संभाव्यते, 'पंच कम्माणि सयसहस्साई' ति कर्मणि-कर्मविषये कर्मणामित्यर्थः, पञ्च शतसहस्राणि लक्षाणि, ‘तिनि

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90