________________
पञ्चदशं गोशालकाख्यं शतकम्
55 यावि' त्ति इह चापीति सम्भावनार्थः, 'उग्गविसं ति दुर्जरविषं, 'चंडविसं' ति दष्टकनरकायस्य झगिति व्यापकविषं, 'घोरविसं ' ति परम्परया पुरुषसहस्र-- स्यापि हननसमर्थविषं, 'महाविसं' ति जम्बूद्वीपप्रमाणस्यापि देहस्य व्यापनसमर्थविषम्, 'अइकायमहाकायं ति कायान् शेषाहीनामतिक्रान्तोऽतिकायोऽत एव महाकायस्ततः कर्मधारयः, अथवा अतिकायानां मध्ये महाकायोऽतिकाय-5 महाकायोऽतस्तं, 'मसिमूसाकालग' त्ति मषी-कज्जलं, मूषा च- सुवर्णादितापनभाजनविशेषस्ते इव कालको यः स तथा तं, 'नयणविसरोसपुण्णं' ति नयनविषेण-दृष्टिविषेण रोषेण च पूर्णो यः स तथा तम्, 'अंजणपुंजनिगरप्पगासं' ति अञ्जनपुआनां निकरस्येव प्रकाशो-दीप्तिर्यस्य स तथा तं; पूर्व कालवर्णत्वमुक्तमिह तु दीप्तिरिति न पुनरुक्ततोत, · रत्तच्छं । ति रक्ताक्षं-10 'जमलजुयलचंचलचलंतजीहं' ति, जमलं-सहवर्ति, युगलं-द्वयं, चञ्चलं यथा भवत्येवं चलन्त्योः - अतिचपलयोर्जिह्वयोर्यस्य स तथा तं, प्राकृतत्वाच्चै वं समासः, 'धरणितलवेणिभूयं ' ति धरणीतलस्य वेणीभूतो-वनिताशिरसः केशबन्धविशेष इव यः कृष्ण वदीर्घत्वश्लक्ष्णपश्चाद्भागत्वादिसाधात् स तथा तम् , ' उक्कडफुडकुडिलजडुलकक्खडवियडफडाडोवकरणदच्छं' ति 15 उत्कटो बलवताऽन्येनाध्वंसनीयत्वात्, स्फुटो-व्यक्तः प्रयत्नविहितत्वात्, कुटिलो-बक्रस्तत्स्वरूपत्वात्, जटिल:-स्कन्धदेशे केशरिणामिवाहीनां केसरसद्भावात्, कर्कशो निष्ठुरो बलवत्त्वात्, विकटो-विस्तीर्णा यः स्फटाटोपःफणासरम्भस्तत्करणे दक्षो यः स तथा तं, 'लोहागरधम्ममाणधमधमेंतघोसं' ति लोहस्येवाकरे ध्मायमानस्य- अमिना ताप्यमानस्य धमधमाय- 20 मानो-धमधमेतिवर्णव्यक्तिमिवोत्पादयन् घोषः-शब्दो यस्य स तथा तम् , 'अणागलियचंडतिव्वरोसं' ति अनिलितः-अनिवारितोऽनाकलितो वाऽप्रमेयश्चण्डः तीवो रोषो यस्य स तथा तं, ' समुहियतुरियचवलं धमंतं । ति शुनो मुखं श्वमुख तस्येवाचरणं श्वमुखिका- कौलेयकस्येव