Book Title: Bhagwati Sutram
Author(s): N V Vaidya
Publisher: Godiji Jain Temple and Charities

View full book text
Previous | Next

Page 76
________________ 70 श्रीमद्भगवतीसूत्रम् वैमानिकेष्वेवोत्पत्तिः स्यादिति, यच्चेह दाहिणिल्लेसु' त्ति प्रोच्यते तत्तस्य क्रूरकर्मत्वेन दक्षिणक्षेत्रेष्वेवोत्पाद इतिकृत्वा, ‘अविराहियसामण्णे' त्ति आराधितचरण इत्यर्थः, आराधितचरणता चेह चरणप्रतिपत्तिसमयादारभ्य मरणान्तं यावन्निरतिचारतया तस्य पालना, आह च-"आराहणा य एत्थं चरण5 पडिवत्तिसमयओं पभिई । आमरणंतमजस्सं संजमपरिपालणं विहिणा ॥१॥” इति [आराधना चात्र चारित्रप्रतिपत्तिसमयत आरभ्य । आमरणान्तमजस्रं विधिना संयमपरिपालना ॥ १॥] एवं चेहू यद्यपि चारित्रप्रतिपत्तिभवा विराधनायुक्ता अग्निकुमारवर्जभवनपतिज्योतिष्कत्वहेतुभवसहिता दश अविराधनाभवास्तु यथोक्तसौधर्मादिदेवलोकसर्वार्थसिद्धयुत्पत्तिहेतवः सप्ताष्टमश्च सिद्धिगमनभव इत्येव10 मष्टादश चारित्रभवा उक्ताः , श्रूयन्ते चाष्टैव भवांश्चारित्रं भवति तथाऽपि न विरोधः, अविराधनाभवानामेव ग्रहणादिति, अन्ये त्वाहुः - “ अट्र भवा उ चरित्ते' [चारित्रेऽष्टौ भवाः । इत्यत्र सूत्रे आदानभवानां वृत्तिकृता व्याख्यातत्वात् चारित्रप्रतिपत्तिविशेषिता एव भवा ग्राह्याः, नाराधनाविराधनाविशेषणं कार्यम् , अन्यथा यद् भगवता श्रीमन्महावीरेण हालिकाय प्रव्रज्या बीजमिति 16 दापिता तन्निरर्थकं स्यात्, सम्यक्त्वमात्रेणैव बीजमात्रस्य सिद्धत्वात् , यत्तु चारित्रदानं तस्य तदष्टमचारित्रे सिद्धिरेतस्य स्यादिति, विकल्पादुपपन्नं स्यादिति, यच्च दशसु विराधनाभवेषु तस्य चारित्रमुपवर्णितं तद्र्व्यतोऽपि स्यादिति न दोष इति, अन्ये त्वाहुः- न हि वृत्तिकारवचनमात्रावष्टम्भोदवाधिकृतसूत्रमन्यथा व्याख्येयं भवति, आवश्यकचूर्णिकारेणाप्याराधनापक्षस्य समर्थितत्वादिति । 20 एवं जहा उववाइए' इत्यादि भावितमेव अम्मडपरिव्राजककथानक इति । पञ्चदशं शतं वृत्तितः समाप्तमिति । श्रीमन्महावीरजिनप्रभावाद् गोशालकाहङ्कतिवद्गतेषु । समस्तविघ्नेषु समापितेयं वृत्तिः शते पञ्चदशे मयति ॥१॥ ॥ इति श्रीमदभयदेवसूरिवर्यविहितविवरणयुतं पञ्चदशं 25 गोशालाख्यं शतकं समाप्तम् ॥

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90