Book Title: Bhagwati Sutram
Author(s): N V Vaidya
Publisher: Godiji Jain Temple and Charities
View full book text
________________
51,
पञ्चदशं गोशालकाख्यं शतकम् अल्पवृष्टिकायत्वाच्च तत्रापि विहरतां न दूषणमिति, एतच्चासङ्गतमेव, भगवतोऽ प्यवश्यं पर्युषणस्य कर्त्तव्यत्वेन पर्युषणाकल्पेऽभिहितत्वादिति ।: 'हरियगरेरिज्जमाणे' त्ति हरितक इतिकृत्वा, 'रेरिज्जमाणे' त्ति अतिशयेन राजमान इत्यर्थः । 'तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वयासि' त्ति, इह यद्भगवतः पूर्वकालप्रतिपन्नमौनाभिग्रहस्यापि प्रत्युत्तरदानं तदेकादिकं 5 वचनं मुत्कलमित्येवमभिग्रहणस्य संभाव्यमानत्वेन न विरुद्धमिति, 'तिलसंगलियाए' त्ति तिलफलिकायां, 'ममं पणिहाए' त्ति मां प्राणिधाय -मामाश्रित्यायं मिथ्यावादी भवत्वितिविकल्पं कृत्वा, ‘अब्भवद्दलए' त्ति अभ्ररूपं वारो-जलस्य दलिकं-कारणमभ्रवादलकं, 'पतणतणायइ' त्ति प्रकर्षण तणतणायते गर्जतीत्यर्थः, ' नच्चोदगं' ति नात्युदकं यथा भवति, 19 'नाइमट्टियं' ति नातिकद्देमं यथा भवतीत्यर्थः, 'पविरलपप्फुसियं' ति प्रविरलाः प्रस्पृशिकाः- विपुषो यत्र तत्तथा, 'रयरेणुविणासणं' ति रजोवातोत्पाटितं व्योमवर्ति, रेणवश्च-भूमिस्थितपांशवस्तविनाशनं–तदुपशमकं, 'सलिलोदगवासं' ति सलिला:-शीतादिमहानद्यस्तासामिव यदुदकं-रसादिगुणसाधयादिति तस्य यो वर्षः स सलिलोदकवर्षोऽतस्तं, ' बद्धमूले 'त्ति 15 बद्धमूलः सन्, 'तत्थेव पइट्टिए' त्ति यत्र पतितस्तत्रैव प्रतिष्ठितः। (सू. ५४२) सू. ५४३-४६ वैश्यायनतेजोलेश्या। पउदृपरिहारः। तेजोलेश्या,
वीरोपर्यमर्षः। 'पाणभूयजीवसत्तदयट्टयाए' त्ति प्राणादिषु सामान्येन या दया सैवार्थः प्राणादिदयार्थस्तद्भावस्तत्ता तया, अथवा षट्पदिका एव प्राणानामुच्छ्रासादीनां 20 भावात् प्राणाः भवनधर्मकत्वाद्भूताः उपयोगलक्षणत्वाज्जीवाः सत्त्वोपपेतत्वात्सत्त्वा- . स्ततः कर्मधारयस्तदर्थतायै, चशब्दः पुनरर्थः, 'तत्थेव' त्ति शिरःप्रभृतिके,

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90