Book Title: Bhagwati Sutram
Author(s): N V Vaidya
Publisher: Godiji Jain Temple and Charities

View full book text
Previous | Next

Page 58
________________ 52 श्रीमद्भगवतीसूत्रम् 'किं भवं मुणी मुणिए ' त्ति, किं भवान् ‘मुनिः' तपस्वी जातः, मुणिए। त्ति ज्ञाते तत्त्वे सति ज्ञात्वा वा तत्त्वम् , अथवा किं भवान् ‘मुनी ' तपस्विनी, 'मुणिए ' त्ति मुनिकः- तपस्वीति, अथवा किं भवान् ‘मुनिः' यतिः उत 'मुणिकः' ग्रहगृहीतः, 'उदाहु' त्ति उताहो इति विकल्पार्थो निपातः, 5 जूयासेज्जायरए' त्ति यूकानां स्थानदातेति, 'सत्तट्ट पयाइं पच्चोसक्का' त्ति प्रयत्नविशेषार्थमुरभ्र इव प्रहारदानार्थमिति, 'सीउसिणं तेयलेस्सं' ति स्वां -स्वकीयामुष्णां तेजोलेश्यां, ‘से गयमेयं भगवं गयगयमेवं भगवं' ति अथ गतं-अवगतमेतन्मया हे भगवन् ! यथा भगवतः प्रसादादयं न दग्धः, सम्भ्रमार्थत्वाच्च गतशब्दस्य पुनः पुनरुच्चारणं, इह च यद्गोशालकस्य संरक्षणं भगवता 10 कृतं तत्सरागत्वेन दयैकरसत्वाद्भगवतः, यच्च सुनक्षत्रसर्वानुभूतिमुनिपुङ्गवयोर्न करिष्यात तद्वीतरागत्वेन लब्ध्यनुपजीवकत्वादवश्यंभाविभावत्वाद्वेत्यवसेयमिति । 'संखित्तविउलतेयलेसे' त्ति सङ्क्षिप्ताऽपयोगकाले, विपुला प्रयोगकाले तेजोलेश्या-लब्धिविशेषो यस्य स तथा, 'सनहाए' त्ति सनखया यस्यां पिण्डिकायां बद्धयमानायामङ्गुलीनखा अङ्गुष्ठस्याधो लगन्ति सा सनखेत्युच्यते, 15 'कुम्मासपिडियाए' त्ति कुल्माषाः- अर्द्धस्विन्ना मुद्गादयो माषा इत्यन्ये, 'वियडासएणं' ति विकटं-जलं तस्याशयः आश्रयो वा-स्थानं विकटाशयो विकटाश्रयो वा तेन, अमुंच प्रस्तावाच्चुलुकमाहुर्वृद्धाः, 'जाहे य मो'त्ति यदा च स्मो-भवामो वयं, 'अनिप्फन्नमेव ' त्ति मकारस्यागंमिकत्वादनिष्पन्न एव । 'वणस्सइकाइयाओ पउदृपरिहारं परिहरंति' त्ति परिवृत्य २-मृत्वा २ 20 यस्तस्यैव वनस्पतिशरीरस्य परिहार:-परिभोगस्तत्रैवोत्पादोऽसौ परिवृत्य. - परिहारस्तं परिहरन्ति-कुर्वन्तीत्यर्थः, 'खुड्डुइ' त्ति त्रोटयति, ‘पउद्दे' त्ति परिवर्त्तः परिवर्त्तवादः इत्यर्थः, 'आयाए अवक्कमणे' त्ति आत्मनाऽऽदाय चोपदेशम्, 'अपक्रमणम् ' अपसरणं, 'जहा सिवे' त्ति शिवराजर्षिचरिते,

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90