Book Title: Bhagwati Sutram
Author(s): N V Vaidya
Publisher: Godiji Jain Temple and Charities
View full book text
________________
श्रीमद्भगवर्तासूत्रम् क्षरेय्या, 'आयामेत्थ' त्ति आचामितवान्, तद्भोजनदानद्वारेणोच्छिष्टतासम्पादनेन तन्छु द्धयर्थमाचमनं कारितवान् भोजितवानिति तात्पर्यार्थः। सब्भितरबाहिरिए 'त्ति सहाभ्यन्तरेण विभागेन बाह्येन च यत्तत्तथा तत्र, 'मग्गणगवेसणं' ति अन्वयतो मार्गणं व्यतिरेकतो गवेषणं ततश्च समाहारद्वन्दः, 5'सुई व' त्ति श्रूयत इति श्रुतिः-शब्दस्तां, चक्षुषा किल दृश्यमानोऽर्थः शब्देन निश्चीयत इति श्रुतिग्रहणं, 'खुइं व' त्ति क्षवणं क्षुतिः- छीत्कृतं ताम्, एषाऽप्यदृश्यमनुष्यादिगामका भवतीति गृहीता, 'पवात्तं व ' त्तिं प्रवृत्ति- वार्ती, 'साडियाओ' त्ति परिधानवस्त्राणि, 'पाडियाओ' त्ति उत्तरीयवस्त्राण,
क्वचित् 'भंडियाओ' त्ति दृश्यते तत्र भण्डिका-रन्धनादिभाजनानि, 1'माहणे आयामेइ' त्ति शाटिकादीनान् ब्राह्मणान् लम्भयति, शाटिकादीन् "ब्राह्मणेभ्यो ददातीत्यर्थः, 'सउत्तरोटुं' ति सह उत्तरौष्ठेन सोत्तरौष्ठं-सश्मश्रुकं यथा भवतीत्येवं, ' मुंडं ' ति मुण्डनं कारयति नापितेन, 'पणियभूमीए' त्ति पणितभूमौ-भाण्डविश्रामस्थाने, प्रणीतभूमौ वा- मनोज्ञभूमौ, 'अभिसमनाएगए' त्ति मिलितः, 'एयमढें पडिसुणेमि' त्ति अभ्युपगच्छामि, ..यच्चैतस्यायोग्यस्याप्यभ्युपगमनं भगवतस्तदक्षीणरागतया परिचयेनेषत्स्नेहगर्भा
नुकम्पासद्भावात् छद्मस्थतयाऽनागतदोषानवगमादवश्यंभावित्वाच्चैतस्यार्थस्येति भावनीयामिति। पणियभूमीए 'त्ति पणितभूमेरारभ्य प्रणीतभूमौ वा-मनोज्ञभूमौ विहृतवानिति योगः, 'अणिच्चजागरियं' ति अनित्यचिन्तां कुर्वनिति वाक्यशेषः । ( सू. ५४१)
तिलस्तम्बाधिकारः- सू.५४२ 20
'पढमसरयकालसमयंसि 'त्ति समयभाषया मार्गशीर्षपौषौ शरदभिधीयते, तत्र प्रथमशरत्कालसमये मार्गशीर्षे, 'अप्पवुट्टिकायंसि'त्ति अल्पशब्दस्य अभाववचनत्वादविद्यमानवर्ष इत्यर्थः, अन्ये तु अश्वयुक्कार्तिको शरदित्याहुः,

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90