Book Title: Bhagwati Sutram
Author(s): N V Vaidya
Publisher: Godiji Jain Temple and Charities

View full book text
Previous | Next

Page 54
________________ श्रीमद्भगवती सूत्रम् उद्धरन्तीत्यर्थः, 'उवट्टाइंसु ' त्ति उपस्थितवन्तः आश्रितवन्त इत्यर्थः, < अट्ठगस्स ' त्ति अष्टभेदस्य, ' केणइ ' त्ति केनचित् - तथाविधजना विदितस्वरूपेण, ‘उल्लोयमेत्तेणं 'ति उद्देशमात्रेण, 'इमाई छ अणइक्कमणिज्जाईं ' ति इमानि षड् अनतिक्रमणीयानि - व्यभिचारयितुमशक्यानि, 'वागरणाई 'ति 5 पृष्टेन सता यानि व्याक्रियन्ते - अभिधीयन्ते तानि व्याकरणानि पुरुषार्थोपयोगित्वाच्चैतानि षडुक्तानि, अन्यथा नष्टमुष्टिचिन्तालूकाप्रभृतीन्यन्यान्यपि बहूनि अजिनः निमित्तगोचरीभवन्तीति ॥ ' अजिणे जिणप्पल्लावित्ति अवीतरागः सन् जिनमात्मानं प्रकर्षेण लपतीत्येवंशीलो जिनप्रलापी, एवमन्यान्यपि पदानि वाच्यानि, नवरम् अर्हन् – पूजार्हः, केवली - परिपूर्णज्ञानादिः, किमुक्तं 10 भवति ? - ' अजिणे ' इत्यादि । (सू. ५३९ ) १५ गोशालकशते गोशालकोत्थानपरियानिकम सू. ५४० 15 ' एवं जहा बियसए नियंहुद्देसए' त्ति द्वितीयशतस्य पञ्चमोद्देश के ' उट्ठाणपरियाणियं ' ति परियानं - विविध व्यतिकरपरिगमनं तदेव पारियानिकं— चरितम् उत्थानात् — जन्मन आरभ्य पारियानिकं उत्थानपारियानिकं तत्परिकथितं भगवद्भिरिति गम्यते । 'मंखे 'त्ति मङ्खः — चित्रफलकव्ययकरः भिक्षाकविशेषः, 'सुकुमाल' इह यावत्करणादेवं दृश्यं - 'सुकुमालपाणिपाए लक्खणवंजणगुणोववेए ' इत्यादि । ' रिद्धत्थिमिय ' इह यावत्करणादेव दृश्यम् -- ‘रिद्धत्थिमियसमिद्धे पमुइयजण जाणवए' इत्यादि, व्याख्या तु पूर्ववत्, ‘चित्तफलगहत्थगए ' त्ति चित्रफलकं हस्ते गतं यस्य स तथा, 20‘पाडिएक्कं’ ति एकमात्मानं प्रति प्रत्येकं पितुःफलकाद्भिन्नमित्यर्थः। (सू. ५४०) श्रीवीरेण गोशालसंगम : - सू. ५४१ अगारवासमज्झे वसित्त ' त्ति अगारवासं - गृहवासमध्युष्य - आसेव्य, 'एवं जहा भावणाए' त्ति आचारद्वितीयश्रुतस्कन्धस्य पञ्चदशेऽध्ययने, 48 ८ -

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90