Book Title: Bhagwati Sutram
Author(s): N V Vaidya
Publisher: Godiji Jain Temple and Charities
View full book text
________________
श्रीमद्भगवतीसूत्रम् । ( व्याख्याप्रज्ञप्तिः ) अथ पञ्चदशं गोशालकाख्यं शतकम् । श्रीमच्चन्द्रकु लाम्बर नभोमणिश्रीमदभयदेवसूरिप्रणीता वृत्तिः ॥ १५ गोशालकशते षदिशाचरसमागम: - सूत्रं ५३९
व्याख्यातं चतुर्दशशतम्, अथ पञ्चदशमारभ्यते । तस्य चायं पूवर्णे सह अभिसम्बन्धः— अनन्तरशते केवली रत्नप्रभादिकं वस्तु जानाति इत्युक्तं, तत्परिज्ञानं च आत्मसम्बन्धि यथा भगवता श्रीमन्महावीरेण गौतमाय आविर्भावितं गोशालकस्य स्वशिष्याभासस्य नरकादिगतिं अधिकृत्य तथा अनेन उच्यते इति एवंसम्बन्धस्य अस्य इदं आदिसूत्रम् :
--
'तेण' मित्यादि, 'मंखलिपुत्ते ' त्ति मङ्खल्यभिधानमङ्खस्य पुत्रः ' चडवीसवासपरियाए 'त्ति चतुर्विंशतिवर्षप्रमाणप्रव्रज्यापर्यायः, 'दिसाचर' त्ति दिशं - मेरां चरन्ति — यान्ति मन्यन्ते भगवतो वयं शिष्या इति दिक्चर : देशाटा वा, दिक्चरा भगवच्छिष्याः पार्श्वस्थीभूता इति टीकाकारः, 'पासावचिचज्ज' त्ति चूर्णिकारः, 'अंतियं पाउब्भविज्ज' त्ति समीपमागताः, ॐ 'अट्ठविहं पुव्वगयं मग्गदसमं 'ति अष्टविधम् - अष्टप्रकारं निमित्तमिति शेषः, तच्चेदं-दिव्यं१ औत्पातंर आन्तरिक्षं ३ भौमं४ आङ्गं५ स्वरं६ लक्षणं७ व्यञ्जनंट चेति, पूर्वगतं – पूर्वाभिधानश्रुत विशेषमध्यगतं, तथा मार्गौ - गीत मार्ग नृत्यमार्गलक्षणी सम्भाव्येते, ‘दसम 'शत्त अत्र नवमशब्दस्य लुप्तस्य दर्शनानवमदशमाविति दृश्यं, ततश्च मार्गौ नवमदशमौ यत्र तत्तथा, ' साह' २ स्वकैः २ स्वकीयैः २ 10 ' मइदंसणेहिं ' ति मतेः बुद्धेर्मत्या वा दर्शनानि - प्रमेयस्य परिच्छेदनानि मति - दर्शनानि तै:, निज्जूर्हति' त्ति निर्यथयन्ति पूर्वलक्षणश्रुतपर्याय यूथान्निर्धारयन्ति

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90