Book Title: Anusandhan 2002 07 SrNo 20
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
10
July-2002
नाम सम्बोधने । हे विमल-त्रयोदशजिनपते ! अद्य ममाऽऽशा पूर्णा मनोरथोऽपूरि। अहं ज्यया-पृथिव्या समं लीनशिरो यथा भवति, एवं अलंअत्यर्थं नतोऽस्मि-क्षितितलनिहितोत्तमाकं यथा भवति एवं प्रणतोऽस्मीत्यर्थः ।।१२।।
अथ हारे सर्वोत्कृष्टो नायकमणिः स्यात् । अतः तत्स्थाने चतुर्विंशतिपत्रप्रतिबद्धपद्मबन्धेन सर्वजिनस्तुतिमाहनवीनपीनस्वनमानगान किं नराननानय॑नवेन मानसे । न मानधा नम्रनरेनका नता नवं नवं न स्वनता न जैनपाः ॥१३॥
ता
LA
व्याख्या : जिनो देवता येषां ते जैना-अर्हद्रक्ताः, तान् जैनान् पान्तिरक्षन्ति ये देवास्ते जैनपा-जिना इत्यर्थः । मयेत्यध्याहार्यम् । मया जेनपा जिना नवं-नतनं नवं-स्तवं स्वनता--ब्रवता न न नता अपि तु नता-नमस्कृता एव । द्वौ नौ प्रकृतमर्थं गमयतः इति । किंविशिष्ट जिनाः?, मानसे-चित्ते न मानधाः । मानं दधतीति मानधाः, न मानधा-मानरहिता इत्यर्थः । केन?, नवीनपीनस्वन-मानगानकिंनराननानय॑नवेन । कोऽर्थः ? उच्यतेः नवीनं- नूतनं पीनं-पीवरं स्वनानां-स्वराणां मान-प्रमाणं यत्र तानि नवीनपीनस्वनमानानि, एवंविधानि गानानि येषु किंनराननेषु तानि नवीनपीनस्वनमानगानकिंनराननानि, तेषामन?महार्थो योऽसौ नवः स्तवः तेन । मानं न कुर्वन्तीत्यर्थः । अपरं किंविशिष्टाः? नम्रनेरेनकाः । नराणामिनाः स्वामिनो नरेनाः, नम्राणिनमनशीलानि नरेनानां कानि- मस्तकानि येषां ते नम्रनरेनका:-नम्रनरेश्वरमौलय इत्यर्थः ॥१३॥
___ अथ स्तवसमाप्तिचित्रनामार्थान्तरेण कविः स्वनामकथनाय सर्वदेवस्तुतिरूपं वृत्तमाह
इत्थं नायक पद्मरागरुचिग सत्कण्टभूषाकरी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122