Book Title: Anusandhan 2002 07 SrNo 20
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसंधान-२०
येषां नाममयी सुवर्णमणिभिर्हारावली निर्मिता । चारित्रप्रभदीक्षितस्तुतपदा देयासुरुच्चैर्जिना: श्रीशत्रुंजयशेखरद्युतिभृतः सर्वेऽपि ते मङ्गलम् ||१४||
व्याख्या : इत्थं- अमुना प्रकारेण येषां नाममयैः सुवर्णमणिभि:शोभनाक्षरमणिभिः हारावली - हारयष्टिर्नर्मिता-निर्ममे । किंविशिष्टा ?, नायकपद्मरागरुचिरा, नायकस्थाने-तरलमणिपदे चतुर्विंशतिदलपद्मं तस्य रागेण रुचिरा-प्रधाना । अपरं किंविशिष्टा ?, सत्कण्ठभूषाकरी । सतां कण्ठाः सत्कण्ठाः, तेषां भूषां - शोभां करोतीति सत्कण्ठभूषाकरी । अन्याऽपि हारावली भवति सा नायकपद्मरागरुचिरा सत्कण्ठभूषाकरी भवति, सुवर्णमणिभिर्निर्मीयते, अत एषाऽप्येवम् । ते सर्वेऽपि जिना मङ्गलं देयासुः वितीर्यासुः । उच्चैरतिशयेन । किविशिष्टा जिना: ?, चारित्रप्रभदीक्षितस्तुतपदाः । चारित्रे चरणे प्रभा येषां ते तथा । अपरं किंविशिष्टाः ? श्रीशत्रुंजयशेखरद्युतिभृतः । श्रीशत्रुंजयोविमलाचल: । तस्य शेखरद्युति-मुकुटकान्ति विभ्रति पुष्णन्तीति श्रीशत्रुंजयशेखरद्युतिभृतः श्रीशत्रुंजयमुकुटतुल्या इत्यर्थः । अथवा ते सर्वे जिना अमङ्गलंपापं उच्चैरतिशयेन देयासुः - छिन्द्यासुः । 'दो अवखण्डने ' अस्य धातोः प्रयोगः । खण्डयन्त्वित्यर्थः । किंविशिष्टममङ्गलम् ?, श्रीशत्रुं - लक्ष्मीवैरिणम् । किंविशिष्टा जिना: ? जयशेखरद्युतिभृतः जयशेखरकवेद्युतिं कान्ति विभ्रति पुष्णन्ति इत्यर्थः । अपरं किंविशिष्टा: ? चारित्रप्र [भ] दीक्षितस्तुतपदा :- "चारित्रप्रभनामगुरोर्दीक्षितः शिष्यः तेन स्तुतपदा - नुतांहूय इत्यर्थः । इत्यर्थान्तरेण कविनामप्रकाशः । इति वृत्तार्थः ||१४||
1
इत्यागमिक श्रीजयतिलकसूरिकृता हारावलिप्रथमचित्रस्तवटीका समाप्ता ॥
-
Jain Education International
11
For Private & Personal Use Only
—
www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122