Book Title: Anusandhan 2002 07 SrNo 20
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 41
________________ 36 आत्मसंवादः ॥ श्रीगुरुभ्यो नमः ॥ इह खलु ‘ज्ञान-क्रियाभ्यां मोक्ष' इति जैना: । तन्त्र सहते चार्वाकः । तथा हि- मोक्षो हि जीवस्योच्यते भवद्भिः, स तु नाऽस्त्येव, घटादेरिव तस्य प्रत्यक्षेणाऽग्रहणात् । न च तदन्यदनुमानं प्रमाणं, अनुमानविरुद्धत्वादिदोषात् । तत्राऽनुमानविरोधो यथा - घटस्य नित्यत्वे साध्ये । घटस्य हि नित्यत्वं साध्यमानमनित्यत्वसाधकेन परिणामित्वसाधकेन चाऽनुमानेन बाध्यते । एवं सर्वत्राऽपि । July 2002 अपि चाऽनुमानस्य विषयः किं सामान्यं विशेषो वा उभयं वा स्यात् । नाऽऽद्यः, अग्निमात्रास्तित्वे कस्यचिद् विप्रतिपत्त्यभावेन सिद्धसाधान् (सिद्धसाधनात्) । न च तेन सिद्धेनाऽपि किञ्चित् प्रयोजनं, पुरुषस्य प्रवृत्ति प्रति देशादिविशिष्टस्यैव वह्नेर्हेतुत्वात् । न द्वितीय:, अत्र हि विवक्षितदेशादिविशिष्टो वह्निरस्तीति विशेष: साध्यः, तच्च न युक्तं विवक्षितदेशादिविशेषणसहितस्य वह्नेरन्वयाभावात् । न हि पर्वतोऽयं वह्निमान् धूमादित्यादौ विवक्षितदेशादिविशिष्टेन साध्येन सह हेतोरन्वयोऽस्ति, तथाविधेन वन्यादिना सह धूमादेर्व्याप्यनिश्चयात् । नाऽपि तृतीयः, तत्राऽपि हि सामान्यवान् विशेष: साध्यः । तथा च विशेषपक्षोक्तदोषात् । तदुक्तं Jain Education International 'विशेषेऽनुगमाभावात्, सामान्ये सिद्धसाधनात् । तद्वतोऽनुपपन्नत्वादनुमानकथा कुत: ? ॥ इति । न चाऽऽगमः प्रमाणं, तत्र बहूनां विप्रतिपत्ते: । यत्तु प्रमाणं तत् सर्वेषामविगानेन स्थितं यथा प्रत्यक्षम् । अपि च कथं 'छव्विहा जीवा पन्नत्ता, तं० पुढविकाइया जाव तसकाईया' तथा 'अस्थि जीवे' इत्यादि जीवास्तित्वप्ररूपकं वचः प्रमाणम् ? पृथिव्याप्तेजोवायुरिति तत्त्वानि, तत्समुदायेषु शरीरेन्द्रियविषयसंज्ञा । तथा 'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवाऽनुविनश्यति' इत्यादिकं च जीवप्रतिषेधपरं न प्रमाणं ?, नियामकाभावात् । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122