Book Title: Anusandhan 2002 07 SrNo 20
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 55
________________ 50 July-2002 प्रत्यक्षसिद्धं चैतन्नहि भवताऽप्यपह्नोतुं शक्यम् । यस्तु प्रत्यक्षसिद्धमप्यर्थमपहनुते तस्य तु शून्यवादिमत एव प्रवेशो युक्त इति कथं त्वयि चार्वाकता चिरस्थायिनी स्यात् ? न ह्येवं समुदितावस्थायां ये गुणास्ते प्रत्येकावस्थायां भूतेषु सामान्यतोऽप्युपलभ्यन्त इति कथं समुदितावस्थायामपि तेभ्यश्चैतन्यस्योत्पत्तिः स्यात् । नहि प्रत्येकावस्थायां सर्वथाऽविद्यमाना स्निग्धता समुदितावस्थायां सिकताकणेषु केनाऽप्यनुभूयते । न चैतद्दोषभयेन प्रत्येकावस्थायामपि किञ्चिच्चैतन्यस्वरूपं स्वीक्रियत एवेति वाच्यम् । एकेन्द्रियजीवसिद्धिप्रसङ्गेनाऽ पसिद्धान्तापातात्, चेतनाचेतनव्यवहारविलोपापत्तेश्च । न चाऽनभिव्यक्तं यत्र चैतन्यं तत्राऽचेतनव्यवहारोऽन्यत्र तु अपर इति वाच्यम् । अनभिव्यक्तचैतन्यस्य त्वयैव तिरस्कारात्, अपलापे प्रतिज्ञासंन्यासनिग्रहापातात्, प्रमाणाभावेन तन्निरासस्य सुकरत्वाच्च । किञ्च, कायाकारपरिणतभूतेभ्यो यद्यसत एव चैतन्यस्योत्पत्तिः, कथं तर्हि मृतकायादपि तस्योत्पत्तिर्न स्यात् ? ननूक्तमेवैतत् प्राक् यत् प्राणापानलक्षणपवनाभावात् तत्र चैतन्यं नोत्पद्यत इति, इति चेत् । ननु प्रत्युक्तमपीदं तदैव यज्जीवाभावादेवेति किं न स्यादिति अहो अहो विस्मरणशीलत्वमाचार्यस्य यदुक्तमपि लाघवं विनिगमकतया न स्मरति, भव्यलाघवमेव तवेत्थं वदतो जानामि । उभयसिद्धोऽपि प्राणापाना[भा]वो जीवाभावमन्तरेणोपपद्यते यतः । कथमेवमभिधीयत इति चेत्, शृणु सावधानमनाः । नहि मृतकाये प्राणापानाभावो निर्हेतुकः, सदाऽभावप्रसङ्गात् । नाऽपि कायाकारनिमित्तकः, जीवदवस्थायामपि तस्य सत्त्वेन तदभावप्रसङ्गात् । नाऽपि कायाकारध्वंसनिमित्तः तस्य तदानीमसत्त्वात् । न चाऽऽन्तरपुद्गलापगमनिमित्तो, निमित्तमन्तरेणाऽऽन्तरपुद्गलापगमस्याऽप्यसम्भवात् । न च कालविशेष एव निमित्तं, अतीन्द्रियकालाङ्गीकारे आत्मानङ्गीकारस्य स्वकदाग्रहमात्रफलत्वात् । तस्मिन्नपि काले चिच्छरीरे प्राणापानाभावस्याऽदर्शनात् । नहि यद् यस्य कारणान्तरनिरपेक्षं अजनकं तत् तनोत्पादयति, अकारणत्वप्रसङ्गात् । किन्तु अनन्यगत्या जीवाभावनिमित्तक एव तत्र प्राणापानाभावो भवताऽप्यवश्यं स्वीकरणीय इति कुतः प्राणापाना Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122