Book Title: Anusandhan 2002 07 SrNo 20
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
91
अनुसंधान-२०
अथ कृतकत्वानित्यत्वयोरभेदादनित्यत्वं कृतकत्वमात्रानु-बन्ध्येवाऽन्यथा पश्चाह्नवदनित्यत्वं कारणान्तरसापेक्षतया भिन्नहेतुत्वात् कृतकत्वाद् भिन्नं न स्यात् । इत्यनित्यत्वं कृतकत्वानुबन्ध्येव इति चेत् । तर्हि द्वितीयक्षणे कारणापेक्षाया अभ्युपगमो न सुन्दरः स्यात् । तदा तस्य विनष्टत्वेन कार्यस्य तदपेक्षाया अनुपपत्तेः ।
अथैष एव कारणस्य स्वभावो यत् तस्याऽनन्तरक्षणे कार्यं भवति । कार्यस्याऽपि चैष एव स्वभावो यत् कारणक्षणानन्तरं मयोत्पत्तव्यमिति, ततो न दोष इति चेत् । तथाऽपि कार्यस्य कारणानन्तरक्षणभवने कारणस्वभाव एव निबन्धनम् । अन्यथा प्रागपि तदुत्पत्तिप्रसङ्गात् । न द्वितीयक्षणे कारणस्वभावः, तस्य क्षणिकत्वात् । तत् कथं तद्भावः स्यात् ? । भावे वा तस्य तत्स्वभावोपेक्षितया न कारणस्य क्षणिकत्वं स्यात् । नाऽप्यसतः कार्यस्य स्वभाव: कल्पयितुं शक्यः, स्वभाविनोऽभावे स्वभावस्याऽप्यभावात् । जातस्य तस्य स तथा कल्प्यत इति चेत् । किमिदानीमनेन कर्तव्यं ? कार्यस्य प्रागेवोत्पत्तेः ।
अथ स स्वभाव: परिकल्पित इति चेत् । न । तथा प्रतीत्यभावात् ।
एतेन यदुक्तं प्राक्- “विशिष्टं कारणं प्रतीत्य कार्यमुत्पद्यत" इति । तत् सप्रपञ्चमपास्तम् । वस्तुतस्तु क्षणिकत्वेनाऽस्त्येव कारणस्य वैशिष्ट्यम् । युगपद् भाविनां परिनिष्पन्नत्वेन परस्परमनाधेयातिशयत्वेन विशेषणाभावात् । न च- मा भूत् सहजानां परिनिष्पन्नत्वेन परस्परमतिशयाधानं, द्वाभ्यां पुनरूपादानसहकारिकारणाभ्यां प्राक्तनाभ्यामेकीभूय विशिष्टं तदुत्पादितम् । ततः सिद्धं वैशिष्ट्यमिति-वाच्यम् । उत्पाद्यविशिष्टकारणापेक्षया भिन्नाद्धानां सहकारिणां सम्बन्धी कुतः विशेषः स्यात् ? उपादानस्य विशेषभावमन्तरेण विवक्षितसहकारिसन्निधानात् प्रागिव तत उपादानतो विशिष्टफलानुपपत्तेः ।
अथ विवक्षितफलसम्बन्धिन उपादानस्य विशेषभावः सहकारिभिः क्रियमाण आश्रीयत इति चेत् । न । समकालभावित्वेन तस्याऽप्युपादानकारणस्य सहकारिभ्यो विशेषानुपपत्तेः । न हि समकालभाविनोऽन्यतो भवतः सहकारिणाकरणादन्यत एव भवत उपादानकारणस्य विशेषभावो युज्यते ।
स्यादेतत्- उत्पाद्यविशिष्टक्षणोपादानस्य विवक्षितोपादानसहकार्युपादानैस्तदुपादानोपादानानामपि तदुपादानोपादानैर्विशेषभाव आधीयते । तथा च न दोषः । अनादित्वाच्चोपकार्योपकारकपरम्पराया नाऽनवस्थाऽपीष्टा बाधिका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122