Book Title: Anusandhan 2002 07 SrNo 20
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
23
अनुसंधान-२०
भाव्या जिना मेऽत्र भवन्तु तुल्य-श्रियः सुरेनव्रजसेव्यपादाः । दानादिधर्मान्वितधौततत्त्वो-पदेशदानस्थितये स्थिराभाः ॥१३।।
व्याख्या : अत्र संसारे भाव्या-भविष्यन्तो जिना मे-मम दानादिधर्मान्वितधौततत्त्वोपदेशदानस्थितये भवन्तु । दानमादिर्येषां ते दानादयः, ते च ते धर्माश्च दानादिधर्माः । तैरन्वितानि धौतानि- निर्मलानि तत्त्वानि, तेषामुपदेशाः, तेषां दानं, तस्य स्थितिः, तस्यै सन्तु । किंविशिष्टाः ? तुल्यश्रियः- समानलक्ष्मीका: । अपरं किंविशिष्टाः ? सुरेनव्रजसेव्यपादाः-अमरस्वामिसमूहाराध्यचरणा: । अपरं किंविशिष्टा: ? स्थिराभा-निश्चलकान्तयः । इति वृत्तार्थः
॥१३॥
अथ समाप्तिवृत्तमाह
इत्थं नायकवज्रबन्धरुचिरा सत्कण्ठभूषाकरी येषां नाममयैः सुवर्णमणिभिर्हारावली निर्मिता । चारित्रप्रभदीक्षितस्तुतपदा देयासुरुच्चैजिना
स्ते श्रीसूरिपदाज्जयादितिलकस्यास्यापि मे मङ्गलम् ॥१४|| व्याख्या पूर्ववत् ॥ इत्यागमिक श्रीजयतिलकसूरिकृता हारावलितृतीयचित्रस्तवटीका समाप्ता ।। छ ।। श्री ।।
★★★
(४) अथ विहरमाण-शाश्वतजिनहारावलिचित्रस्तवं चतुर्थं व्याचिख्यासुः प्रथमवृत्तमाह । स्थापना
सी । मंधरः पूर्वविदेहभू
गल्यचित्रोस्तु मुदे प्रजा
मं दिशन् संप्रति पबि | बा र | क्ताधरोऽसौ जयतात् सुबा | हुः व्याख्या : सीमंधरो जिनः प्रजासु-लोकेषु मुदेऽस्तु । विदेहभूश्रीम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122