Book Title: Anusandhan 2002 07 SrNo 20
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
16
July-2002
किंविशिष्टः ?, परमं-प्रकृष्टं उद्गतं मनो यस्य स तथा । अपरं किंविशिष्टः ? नयानामेकोऽद्वितीयः शास्ता-अनुशासकः स तथा । अथापरार्द्धव्याख्याः- हे अस्ताघ जिन ! त्वया भवार्णवो-भवसमुद्रः तेरेऽतारि । किंविशिष्टः ?, अघ जात्याकुल:-अघानां-पापानां जातयोऽघजातयः । समुद्रपक्षे तु अघात्-पापात् जाति:-जन्म येषां ते मकर-कच्छपादयः । तैराकुलो-व्याप्तः स तथा । अपरं किंविशिष्टः ?, अस्ताघा-महती लसन्ती जडानां-मूर्खाणां लक्ष्मीर्यत्र स तथा। समुद्रपक्षे ड-लयोरैक्ये प्रकटार्थ एव ॥१०॥ अथैकादशं वृत्तमाह । स्थापना
श्री | स्वामिवक्त्राब्जमलीन् विका | स्वा मोदपूरेण समाजुहा
मांसते कः शिवगत्यपां च्चैर्लयं यः श्रुतिषु प्रया । ति
मी
व्याख्या : श्रीस्वामिवक्त्राब्जं-श्री स्वामिजिनमुखकमलं स्वामोदपूरेण - निजपरिमलसम्भारेण अलीन्-भ्रमरान् समाजुहाव-आमन्त्रयामास । किंविशिष्टं वक्त्राब्जं ?, विकाशि-विकस्वरं ॥ द्वितीयार्द्धव्याख्या:-यत्तदोनित्यमेव सम्बन्धः । तं शिवगत्यपाङ्गं-शिवगतिजिननेत्रपर्यन्तं को मीमांसते-को विचारयति यः शिवगत्यपाङ्ग उच्चैरतिशयेन श्रुतिषु-कर्णेषु लयं प्रयाति-गच्छति । श्लेषे श्रुतिषुवेदेषु इत्यर्थः ॥११॥ अथ द्वादशवृत्तमाह । स्थापना
श्शक्तिरासीन्मुनिसुव्रत तोऽपि ते सव्रतखण्डना नो यथा विश्वविसारिधा थातिविश्वं सुमतिर्दधा
व्याख्या : हे मुनिसुव्रतजिन ! श्रीसु[तो]ऽपि-कामोऽपि ते-तव स द्वतखण्डनासु-प्रधाननियमभङ्गेषु निःशक्तिरासीद्-अक्षमो बभूव ॥ अथ द्वितीयार्धव्याख्या:- व्रघ्नो-रविर्यथा-येन प्रकारेण विश्वविसारि-जगद्व्यापि धामतेजो दधाति-धारयति, तथा-तेन प्रकारेण सुमतिर्जिनः अतिविश्वं विश्वातिगं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122