________________
10
July-2002
नाम सम्बोधने । हे विमल-त्रयोदशजिनपते ! अद्य ममाऽऽशा पूर्णा मनोरथोऽपूरि। अहं ज्यया-पृथिव्या समं लीनशिरो यथा भवति, एवं अलंअत्यर्थं नतोऽस्मि-क्षितितलनिहितोत्तमाकं यथा भवति एवं प्रणतोऽस्मीत्यर्थः ।।१२।।
अथ हारे सर्वोत्कृष्टो नायकमणिः स्यात् । अतः तत्स्थाने चतुर्विंशतिपत्रप्रतिबद्धपद्मबन्धेन सर्वजिनस्तुतिमाहनवीनपीनस्वनमानगान किं नराननानय॑नवेन मानसे । न मानधा नम्रनरेनका नता नवं नवं न स्वनता न जैनपाः ॥१३॥
ता
LA
व्याख्या : जिनो देवता येषां ते जैना-अर्हद्रक्ताः, तान् जैनान् पान्तिरक्षन्ति ये देवास्ते जैनपा-जिना इत्यर्थः । मयेत्यध्याहार्यम् । मया जेनपा जिना नवं-नतनं नवं-स्तवं स्वनता--ब्रवता न न नता अपि तु नता-नमस्कृता एव । द्वौ नौ प्रकृतमर्थं गमयतः इति । किंविशिष्ट जिनाः?, मानसे-चित्ते न मानधाः । मानं दधतीति मानधाः, न मानधा-मानरहिता इत्यर्थः । केन?, नवीनपीनस्वन-मानगानकिंनराननानय॑नवेन । कोऽर्थः ? उच्यतेः नवीनं- नूतनं पीनं-पीवरं स्वनानां-स्वराणां मान-प्रमाणं यत्र तानि नवीनपीनस्वनमानानि, एवंविधानि गानानि येषु किंनराननेषु तानि नवीनपीनस्वनमानगानकिंनराननानि, तेषामन?महार्थो योऽसौ नवः स्तवः तेन । मानं न कुर्वन्तीत्यर्थः । अपरं किंविशिष्टाः? नम्रनेरेनकाः । नराणामिनाः स्वामिनो नरेनाः, नम्राणिनमनशीलानि नरेनानां कानि- मस्तकानि येषां ते नम्रनरेनका:-नम्रनरेश्वरमौलय इत्यर्थः ॥१३॥
___ अथ स्तवसमाप्तिचित्रनामार्थान्तरेण कविः स्वनामकथनाय सर्वदेवस्तुतिरूपं वृत्तमाह
इत्थं नायक पद्मरागरुचिग सत्कण्टभूषाकरी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org