SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-२० व्याख्या : हे श्रीशीतल-दशमजिनपते ! जितमोहयोध-निजितमोहमल्ल ! शीलाढ्य-शीलधनेश्वर ! अहं त्वां-भवन्तं जिनराजशर्म-तीर्थकरसौख्यं याचे-- मार्गयामि । अथापरार्द्धव्याख्या:- हे धर्मनाथ-पञ्चदशजिनेन्द्र ! जीवास्तव स्वरूपं-- भवतो वीतरागत्वं हृदि-हृदये संदधाना-ध्यायन्तः त्वयि-भवति लयं लभन्ते-स्थानं प्राप्नुवन्तीत्यर्थ : ॥१०॥ अथैकादश-चतुर्दशजिनस्तवमाह । स्थापना | वत्सिनि श्रीहृदि तावके यांस सक्ता नितरामहो अ मे निजां देहि वदान्य दी | नं स | मीक्ष्य वीराग्रिम मामनं त यां । व्याख्या : अहो इति सम्बोधने । श्रीश्रेयांस-एकादशजिनपते ! अ:विष्णुः, अ इव अ:, लुप्तोपमत्वाद् विष्णूपमः, तस्य सम्बोधनं अहो अ ! अहो श्रेयांसविष्णो ! ओदन्तनिपातत्वादसन्धिः । तावक-भवदीये हृदि- हृदये श्री:लक्ष्मी: नितरां-अतिशयेन सक्ता-आसक्ता वर्तते । किंविशिष्टे हृदि ?, श्रीवत्सिनिश्रीवत्सयुक्ते । अथापरार्द्धव्याख्या:-हे अनन्त-चतुर्दशजिनपते ! वीराग्रिम-युद्धदानधर्मवीरशिरोमणे ! वदान्य-दानशूर ! प्रियवाक् ! च । इमानि त्रीण्यामन्त्रणपदानि । मां दीनं-दुस्थं समीक्ष्य-विलोक्य मे-मह्यं निजां-स्वां लक्ष्मी देहि-वितरेत्यर्थः ॥११॥ अथ द्वादश-त्रयोदशजिनस्तवनमाह. । स्थापना वा | ग् वासुपूज्यागमिकी श्रुति | श्री | खं कषन्ती भवताऽभ्यसा वि पू । णां ममाशा विमलाय ना | या समं लीनशिरो नतोऽ | लं प व्याख्या : वासुपूज्य-द्वादशजिनपते ! आगमिकी-आगमसम्बन्धिनी वाग्-वाणी भवता-त्वयाऽभ्यसावि-अभिसुषुवे । किं कुर्वन्ती ?, श्रुतिश्रीसुखं कपन्ती-वेदलक्ष्मीमुखं विनाशयन्ती वेदमार्गोच्छेदकेत्यथः । अथोत्तरार्द्धव्याख्या: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520520
Book TitleAnusandhan 2002 07 SrNo 20
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2002
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy