Book Title: Anusandhan 1995 00 SrNo 05
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
(७)
'सवह' इति पञ्चधा । यथा - स्वपत स्वापं कुरुत १ । शपथः प्रतिज्ञा २ । सपथः समार्गः ३ । सवहः सवाहनः ४ । स्ववध आत्मवधः ५ ॥
'अहिमयरः' पञ्चार्थो यथा - अधिमकरः समुद्रः १ । अहिमकरः सूर्यः २ । अहिमचरः सर्पः ३ । अभिमतरोऽभीष्टदाता ४ | अहिमतरोऽत्युष्णः ५ ॥
'सहा' इत्ययमपि पञ्चार्थो यथा - स्वाभा स्वदीप्ति: १ । सभा परिषत् २ । सखा मित्रं ३ | स्वधा पितृवध: ४ । स्वहा आत्मघातकः ५ ॥ इति पञ्चमगाथार्थः ॥ आसासत्ति चउद्धा आयासं मुणह तह य तब्भेयं ।
पव्वइओ तह य च्चिय भणिओ कुहरति पंचविहो ॥ ८ ॥
'आसासा' शब्दश्चतुर्धा । यथा - आश्वासः संधारणं १ | आशाशं दिशिदिशि २ । आश्वास्यं हयमुखं ३ | आशास्यमाशंसनीयं ४॥
'आयास' श्चतुर्धा । यथा - आकाशं खं १ । आयासः खेदः २ । आयाशो आयभोक्ता ३ । आदासं दासपर्यन्तं ४ ॥
'पव्वइय' श्चतुर्धा । यथा - पार्वतिकः पर्वतनिवासी लोकः १ । प्रवजितो व्रती २ । पर्व इतः सन्धिगतः ३ । पर्वदिनो ग्रन्थिच्छिन्नः ४ ॥
'कुहर' इति पञ्चधा । यथा - कुधरः पर्वताद्यनेकधा १ । कुगृहः कुत्सितगृहः २ । कुहरो दरी ३ । कुभरः पृथ्वीधरः ४ । कुखर ईषत्कर्कशरूपः विरूपगर्दभो वा ५ । षष्ठगाथापर्यायाः ॥
कइलास कव्वफलिहा वास अहोवाह पत्र सउणा य । कीलालायणसहिआ एए अ चउव्विहा हुंति ॥
'कइलास' श्चतुर्धा । यथा- कैलाशो गिरिः १ । कविलासं कवीनां लसनं २ | कपिलाशः पिङ्गलाशो देशः ३ । कपिलासः कपीनां लसनं ४ ॥
'काव्यं' कवेर्भावः कर्म वा १ । क्रव्यमामिषं २ | क[इ]व ब्रह्म यथा ३ | कव्यं पैत्रं कर्म ४।
'फलिह' श्चतुर्धा । यथा - स्फटिक ः १ । परिखा खातिका २ । परिघः ३ । फलिहो रत्नविशेषः ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110