Book Title: Anusandhan 1995 00 SrNo 05
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 21
________________ (१४) विचक्षणचकोरौघ-हर्षोत्कर्षविधायिनी। व्याख्या सुधास्राविणी च पदार्थानां प्रकासि(शि)नी॥७॥ अज्ञानोग्रतमःस्तोम-प्रध्वंसनपटीयसी। , सुबोधाऽगाधजलधि-लोलकल्लोलवर्द्धनी॥ ८॥ शब्दार्थचन्द्रिकाख्येयं शब्दशास्त्रेन्दुचन्द्रिका। सारस्वताद्यसत्पद्य-द्वयवृत्तिवितन्यते।। ९॥ (चतुर्भिः कलापकम्) निजानुजज्ञश्रीसिद्धि-विजयस्याग्रहान्मया। क्रियमाणप्रयत्नस्तान् मन्दधीबोधतत्फली॥ १०॥ इह हि किल निश्शेषसविशेषस्फूर्जद्वर्यपदार्थसार्थपरमार्थजिज्ञासूनां शिशूनां सम्यगशब्दव्युत्त्पत्यवबोधाय स्वकीयकमनीयकुशाग्रप्रतिमनिष्प्रतिम प्रतिभाप्रभाप्राग्भारपराभूतप्रबर्हबहिर्मुखाचार्यमानाभिमानैदंयुगीनचञ्चच्चतुरजनचेतश्चमत्कार करणाय य श्रीसारस्वतशब्दानुशासनादिमवृत्तद्वितयस्य व्याख्या संहितादिभेदेन षोढा प्रस्तूयते । यदुक्तं पूर्वसूरिभिः शास्त्रान्तरे- . संहिता (१) च पदं (२) चैव पदार्थः (३) पदविग्रहः (४) चालना (५) प्रत्यवस्थानं (६) व्याख्या तन्त्रस्य षड्विधा । अस्यार्थः सुबोध एव। तथापि चाक्षरगमनिकानिगमनाप्तक्वचनवचनरचना रचितसूचामात्रसूचनकृत् सूत्रसूत्रितभावार्थैकदेशो निरूप्यते। अयमस्यार्थः- तन्त्रस्य व्याख्या षड्विधा भवति इति क्रियाकारक सण्टङ्कः । "यत्र अन्यत् क्रियापदं न श्रूयते तत्रास्तिभवन्तीत्यादि पुरः प्रयुज्यते" इति न्यायात् इति वृद्धवचनप्रमाण्याद्वा अ अनुक्तमपि 'भवति' पदं योजनीयम्। यदाहु: अह्ना विना न सूर्यः सूर्यविहीनश्च वासरो नास्ति । कर्तृक्रिये तथैव हि संपृक्ते सर्वदा भवतः ॥१॥ इति । अत्र व्यारव्येति कोऽर्थः ? विशेषेण आख्यायते कथ्यतेऽधिकारात् अर्थ इति व्याख्या-व्याख्यानं, 'ख्या प्रकथने इति वचनात् । कस्य ? तन्त्रस्य। तन्यते विस्तार्यत इति तन्त्रं, तस्य तन्त्रस्य शास्त्रस्य। तन्त्रं सिद्धान्ते राष्ट्रे च, परच्छन्दप्रधानयोः। अगदे कुटुम्बकृत्ये च, तन्तुवाने परिच्छदे॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110