________________
(१४) विचक्षणचकोरौघ-हर्षोत्कर्षविधायिनी। व्याख्या सुधास्राविणी च पदार्थानां प्रकासि(शि)नी॥७॥ अज्ञानोग्रतमःस्तोम-प्रध्वंसनपटीयसी। , सुबोधाऽगाधजलधि-लोलकल्लोलवर्द्धनी॥ ८॥ शब्दार्थचन्द्रिकाख्येयं शब्दशास्त्रेन्दुचन्द्रिका। सारस्वताद्यसत्पद्य-द्वयवृत्तिवितन्यते।। ९॥ (चतुर्भिः कलापकम्) निजानुजज्ञश्रीसिद्धि-विजयस्याग्रहान्मया। क्रियमाणप्रयत्नस्तान् मन्दधीबोधतत्फली॥ १०॥
इह हि किल निश्शेषसविशेषस्फूर्जद्वर्यपदार्थसार्थपरमार्थजिज्ञासूनां शिशूनां सम्यगशब्दव्युत्त्पत्यवबोधाय स्वकीयकमनीयकुशाग्रप्रतिमनिष्प्रतिम प्रतिभाप्रभाप्राग्भारपराभूतप्रबर्हबहिर्मुखाचार्यमानाभिमानैदंयुगीनचञ्चच्चतुरजनचेतश्चमत्कार करणाय य श्रीसारस्वतशब्दानुशासनादिमवृत्तद्वितयस्य व्याख्या संहितादिभेदेन षोढा प्रस्तूयते ।
यदुक्तं पूर्वसूरिभिः शास्त्रान्तरे- . संहिता (१) च पदं (२) चैव पदार्थः (३) पदविग्रहः (४) चालना (५) प्रत्यवस्थानं (६) व्याख्या तन्त्रस्य षड्विधा ।
अस्यार्थः सुबोध एव। तथापि चाक्षरगमनिकानिगमनाप्तक्वचनवचनरचना रचितसूचामात्रसूचनकृत् सूत्रसूत्रितभावार्थैकदेशो निरूप्यते।
अयमस्यार्थः- तन्त्रस्य व्याख्या षड्विधा भवति इति क्रियाकारक सण्टङ्कः । "यत्र अन्यत् क्रियापदं न श्रूयते तत्रास्तिभवन्तीत्यादि पुरः प्रयुज्यते" इति न्यायात् इति वृद्धवचनप्रमाण्याद्वा अ अनुक्तमपि 'भवति' पदं योजनीयम्। यदाहु:
अह्ना विना न सूर्यः सूर्यविहीनश्च वासरो नास्ति । कर्तृक्रिये तथैव हि संपृक्ते सर्वदा भवतः ॥१॥
इति । अत्र व्यारव्येति कोऽर्थः ? विशेषेण आख्यायते कथ्यतेऽधिकारात् अर्थ इति व्याख्या-व्याख्यानं, 'ख्या प्रकथने इति वचनात् । कस्य ? तन्त्रस्य। तन्यते विस्तार्यत इति तन्त्रं, तस्य तन्त्रस्य शास्त्रस्य।
तन्त्रं सिद्धान्ते राष्ट्रे च, परच्छन्दप्रधानयोः। अगदे कुटुम्बकृत्ये च, तन्तुवाने परिच्छदे॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org