________________
(१५) श्रुतिशाखान्तरे शास्त्रे करणे व्यर्थसाधके। इति कर्तव्यता तन्वो ०॥ इति हैमानेकार्थकोशः॥
कतिधा ? इत्याह-षड्विधा। षट् षट्सङ्ख्याकाः विधाः प्रकाराः अस्या इति षड् = विधाः षट् = प्रकाराः।।
अयमभिप्रायः- सर्वस्यापि शब्दानुशासनादिशास्त्रस्य व्याख्यायाः षड्भेदा भवन्तीति भावार्थः।
अथ ग्रन्थकारस्तान् भेदान् यथानुक्रमं व्यनक्ति प्रकटयति। तत्र तावत् संहिता इति संज्ञायाः कः शब्दार्थः ? संधीयते इति संहिता, अस्खलितपाठोच्चार इति यावत् । किमुक्तं भवति ? । अस्खलिततया मुखे सूत्रपाठोच्चारणं संहिता इति तात्पर्यम्। इति प्रथमो भेदः (१) ॥
चः पुनरर्थे। "पुनरर्थेपि किं च तु" इति हैमानेकार्थकोशः। च पुनः। पदं पदमित्यस्य कोऽर्थः ? विभक्त्यन्तं पदम्।
विभज्यन्ते पृथक् क्रियन्ते कर्तृकर्मादयो यया सा विभक्तिः। सा विभक्तिः द्विप्रकारा। एका स्यादिः॥
सि औ जस् इति प्रथमा १ अम् औ शस् इति द्वितीया २ टा भ्याम् भिस् इति तृतीया ३ ड्रेभ्याम् भ्यस् इति चतुर्थी ४ ङसि भ्याम् भ्यस् इति पञ्चमी ५ ङस् ओस् आम् इति षष्ठी ६ ङिओस् सुप् इति सप्तमी ७
एकैकस्याः विभक्तेस्त्रीणि त्रीणि वचनानि। एक वचन १ द्विवचन २ बहुवचन ३ संज्ञानि भवन्तीत्यादिरूपा।
अपरा त्यादिः। तिव तस् अन्ति ते आते अन्ते सिव् थस् थ से आये ध्वे मिव् वस् मस् ए वहे महे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org