SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ (१६) इत्यादि दशलकारस्वरूपा। ते च के दश लकाराः ? इत्याकांक्षायामाहवर्तमाना १ विधिसभ्भावना २ आशी: प्रेरणा ३ अनद्यतनी ४ परोक्षार्थ ५ आशीरर्थ ६ श्वस्तन्यर्थ ७ भविष्यति ८ क्रियातिपत्ति ९ भूतार्थ १० लक्षणा ज्ञेयाः। अत्र पाणिनीयानां मतमाह" लट् १ लिङौ, च लोट् ३ लङौ ४ च लिट् ५ लिडौ ६ लुट् लय ८ तथा। लुङ् ९ लुडा १० वपि विद्वद्भिः लकारा दश विस्मृताः।। १।। इति ॥ तत्र विभक्तिद्वयमध्ये स्यादिविभक्तिर्नाम्नोऽग्रे प्रयोज्यते। त्यादिविभक्तिर्धातोरने स्थाप्यते। सा विभक्तिः अन्ते यस्य तद् विभक्त्यन्तं, यस्यान्ते विभक्तिस्तत् पदमुच्यते। तद्व्यतिरिक्तं नाम। यतः "अविभक्ति नाम-विभक्तिरहितं धातुवर्जं चार्थवच्छब्दरूपं नामोच्यते"। अस्य व्याख्या-विभक्त्या रहितं धातोर्खादेः पृथग्भूतं अर्थयुक्तं शब्दरूपं एकादिवर्णरूपं तन्नामोच्यते। अथास्य पदकृत्यानि। "शब्दरूपं नाम" इत्येवास्तु, इत्युक्ते पदस्यापि नामसंज्ञा स्यात् तन्निवारणार्थमविभक्तीति पदमुपादीयते। तथा सति धातावतिव्याप्तिस्तनिवारणार्थ धातुवर्जमिति तथा सति निरर्थकस्य टस इत्यादेव॑ने मत्वं सम्भवति तनिवारणार्थं अर्थवदिति। ईदृग्लक्षणं नाम । तथा कृत्तद्धितसमासाश्चेत्युक्तत्वात् च पुनः कृत्तद्धितसमासा अपि नामसंज्ञकाः स्युः। "प्रत्ययग्रहणे प्रत्ययान्तस्य ग्रहणम्" इति न्यायात् कृच्छब्देन कृदन्तधातूनां ग्रहणम्। कृदन्ता ये धातवः तद्धितसमासयोः पदानि नामसंज्ञानि भवन्ती त्यर्थः। केचित् पाणिनीयाचार्या इति वदन्ति। "एते सर्वेऽपि प्रातिपादिकसंज्ञका" इति। तन्मते प्रातिपादिक इति नामपर्यायः । तस्मान्नाम्नः पराः स्यादयः सप्त विभक्तयो भवन्ति। तदन्तं पदमेवेति तात्पर्यार्थः। इति द्वितीयो भेदः॥ २॥ इतोऽग्रे पश्चिमं भेदं यावद् देहलीप्रदीपन्यायेन डमरुकमणिन्यायेन वा चकारो मध्यवर्तित्वात् सर्वत्रापि सम्बध्यत इति । च पुनः । एव निश्चये । ततः पदार्थः । पदानां पूर्वोक्तानां अर्थः पदार्थ अर्थग्रहणच्चान्योऽपि गृह्यते । अन्वितान्येव पदान्यर्थसमर्पकाणि भवन्ति। इति तृतीयो भेदः॥ ३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520505
Book TitleAnusandhan 1995 00 SrNo 05
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1995
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy