SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ (१७) च पुनः। पदविग्रहः । पदानां विग्रहः पदविग्रहः। विग्रह इति कोऽर्थः ? अन्वययोग्यार्थसमर्पकः पदसमुदायो विग्रहो वाक्यमिति । परस्परसापेक्षपदैकार्थीभावोऽन्वयस्तस्य अन्वयस्य योग्यो योऽसावर्थस्तस्य समर्पकः समर्थको यः पदसमुदाय:-पदसमूहः स विग्रहः । तस्यापरं नाम वाक्यमित्यर्थः। अत्र विग्रहशब्देन समास एवोच्यते। समासापरपर्यायो विग्रह इति वचनात्। समास इति किम् ?। समस्यते संक्षिप्यते अर्थो येन स इति समासः। यद्वा समसनं अनेकेषां पदानामेकपदीकरणं स समासः। तेन द्वयोर्नाम्नो: बहूनां च नाम्नां समासो भवति। अत्र नामशब्देन पदमेव विवक्षितं, अन्यथा अविभक्ति नाम इत्युक्ते "समासप्रत्यययो' रिति सूत्रं व्यर्थं स्यात्। तस्मानामशब्देन पदमेवेति भावः। स च नाम्नामन्वययोग्यत्वे सत्येव समासो भवति। यत्र नाम्नां पदीनामन्वययोग्यत्वं सम्भवति राजपुरुष इत्यादौ तत्रैव समासो भवति नान्यत्रेति। च शब्दात्तद्धितोऽपि। तद्धितप्रत्ययसम्बन्धिविग्रहोऽप्यन्वययोग्यत्वे सत्येव भवति। अन्वययोग्यता नाम पदानां मिथः सामर्थ्यम्। ततो भार्यापुरुषस्येत्यादौ क्रमवैपरीत्येनान्वययोग्यत्वाभावात् समासो न भवति, एवं देवदत्तस्य भार्या, पुरुषस्य वस्त्रमित्यत्र भार्यापुरुषयोः सापेक्षत्वाभावात् न समासः। ननु विभक्तान्येव पदानि प्रयोक्तव्यानि किं समासेन ? इति समासप्रयोजनमाहऐकपद्यमैकस्वर्यमेकविभक्तिकत्वं च समासप्रयोजनमिति । एकं पदं-एकपदं तस्य भावः ऐकपद्यम्। द्वयोः पदयोः बहूनां वा पदानां समासे कृते एकपदभावो भवति तदैकपद्यम्, इत्येकं प्रयोजनम्। तथा एकस्वरस्य भाव ऐकस्वर्यम्। समासे कृते वेदे अनेकेषु स्वरेषु एक उदात्तादिः स्वरो दीयत इति द्वितीयप्रयोजनम्। ऐकपद्याच्च शरवणादौ णत्वमिति। तथा एका विभक्तिर्यत्र तदेकविभक्तिकं तस्य भाव एकविभक्तिकत्वं समासस्य प्रयोजनमिति। समासे हि पृथक्पदानां विभक्तिलोपादेकविभक्तिकत्वं भवति। यथाशशाश्च कुशाश्च पलाशाश्च शशकुशपलाशमिति तृतीयं प्रयोजनम्। यतः "विभक्तिः लुप्यते यत्र तदर्थस्तु प्रतीयते। ऐकपद्यं पदानां च स समासोऽभिधीयते॥ १॥ इति समासलक्षणम्। स च षड्विधः। अव्ययीभाव १ स्तत्पुरुषो २ द्वन्द्वो ३ बहुव्रीहिः ४ कर्मधारयो ५ द्विगुश्च ६इति । एवं समासः षड्विधो ज्ञेयः। तत्र पूर्वपदप्रधानोऽव्ययीभावः। पूर्व पदं अव्ययलक्षणं प्रधानं यत्र सः पूर्वपदप्रधानः। इति समास Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520505
Book TitleAnusandhan 1995 00 SrNo 05
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1995
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy