SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ (१८) द्विगु-तत्पुरुषौ परपदप्रधानौ। पूर्वोत्तरयोः पदयोर्मध्ये यत्परं अग्रेतनं पदं तत्प्रधानं ययोस्तौ० [परपदप्रधानौ] । द्वन्द्व-कर्मधारयौ चोभयपदप्रधानौ । उभे पूर्वापरे पदे प्रधाने ययोस्तौ० [उभयपद प्रधानौ] । बहुव्रीहिरन्यपदप्रधानः। पूर्वोत्तराभ्यां पदाभ्यां अन्यत् यत्किञ्चित् बहिः स्थितं पदं यत्पदवाच्यं प्रधानं यस्मिन् सः। कस्मात् ?, तस्य क्रियाभिसम्बन्धात् । अस्य व्याख्या यथा-'तस्य क्रियाभिसम्बन्धात्' इति पदं सर्वत्रापि योज्यम् । तत्र तत्र तस्य तस्य पदस्य क्रियाभिः सहाभिसम्बन्धात् क्रियायोगित्वेन प्राधान्यादित्यर्थः। अव्ययीभावः - पूर्वपदप्रधानः। यथा-स्त्रीषु अधि इति 'अधिस्त्रि गृहकार्य भवती'त्यत्र क्रियायाः पूर्वपदेनाधीत्यव्ययेन सह सम्बन्धात् तस्य प्राधान्यात् अव्ययीभावः पूर्वपदप्रधानः। तथा द्विगुस्तत्पुरुषश्च एतौ परपदप्रधानौ, यथा पञ्चानां गवां समाहारः पञ्चगवमित्यत्र पञ्चन् शब्दस्य सङ्ख्याभूतस्य विशेषणत्वं, गोशब्दस्य विशेष्यत्वम्। विशेष्यविशेषणयोः मध्ये विशेष्यस्य मुख्यत्वमिति गोशब्दस्य परपदस्य प्रधानत्वम्। तथा तत्पुरुषसमासे राजपुरुषो याति इत्यत्र गमनक्रियायाः पुरुषेण सहान्वयात् तस्यैव प्राधान्यमेवं तत्पुरुषे परपदस्य प्राधान्यम्। एवं द्विगुतत्पुरुषयोः परपदस्य क्रियाभिसम्बन्धात् द्विगुतत्पुरुषौ परपदप्रधानौ। तथा द्वन्द्वे कर्मधारये चोभयपदयोः क्रियाभिसम्बन्धात् द्वन्द्वकर्मधारयौ उभयपदप्रधानौ यथा-अग्निश्च सोमश्च इत्यादिषु पदद्वयस्यापि क्रियायामधिकारित्वात् द्वन्द्वे उभयपदयोः प्राधान्यम्। तथा कर्मधारये नीलं च तदुत्पलं चेत्यत्र विशेषणविशेष्ययोरेकार्थनिष्ठत्वादन्योन्याश्रयभूतत्वाच्च पदद्वयस्य प्राधान्यम्। बहुव्रीहौ चान्यपदस्य प्राधान्यम्। यथा-बहु धनं यस्येत्यत्र बहुधनस्य वस्तुभूतत्वं यच्छब्दस्य तु स्वामित्वमिति अन्यपदस्य प्राधान्यम्। तस्यान्यपदस्य क्रियाभिसम्बन्धादिति समासार्थः। अथोपसंहारमाह पूर्वेऽव्ययेऽव्ययीभावोऽमादौ तत्पुरुषः स्मृतः। चकारबहुलो द्वन्द्वः सव्यापूर्वो द्विगुर्मतः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520505
Book TitleAnusandhan 1995 00 SrNo 05
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1995
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy