________________
(१३)
शब्दार्थचन्द्रिका-सवृत्तिः ॥ श्री शर्खेश्वरपार्श्वनाथाय नमः।
॥एँ नमः॥ ।। सकलभट्टारकपुरन्दर भट्टारक श्री ५ श्री विजयाणंदसूरीश्वरचरणकमलेभ्यो नमः ।।
ॐ नमः सिद्धिसन्तान - दायिने परमात्मने। श्रीमच्छङ्केश्वराह्वान-पार्वेशाय महस्विने ॥ १ ॥ श्रीवर्धमानस्संसिद्धयै वर्धमानमहोदयः।। स्ताद्विश्वविश्वविश्वेश-शक्रचक्रस्तुतक्रमः॥ २ ॥ हेतवे श्रेयसामेव पराय परमेष्ठिने। विधूतरागद्वेषाय कारुण्यनिधये नमः॥ ३ ॥ सारदां सा(शा)रदां स्मृत्वा शारदेन्दुतनुप्रभाम्। कर्पूरपूरन्यत्कार-कारिकीर्तिविराजिनीम्॥ ४ ॥ गुरुं श्री विजयानन्दं विजयानन्ददायकम्। नत्वा गौरीगुरुगिरि-ग्रावगौरगुणैर्गुरूम्॥ ५ ॥ बालानां बुद्धिबोधाय विनोदाय च वाग्मिनाम्। संक्षिप्तयुक्तिभिर्युक्ता गम्भीरार्थगरीयसी॥ ६ ॥
टि. १ - ॐमिति अवतीत्यौणादिके मप्रत्यये ज्वरतरेत्युठिगुणे स्वरादित्वादव्ययत्वे च सिद्धिः, तस्मै परमब्रह्मरूपायेत्यर्थः । अत्र धुरि मातृकयामिव ॐनमः इति पठितमन्त्रसिद्धमन्त्रोपन्यासः। प्रयोजनं चास्य निर्विघ्नमिष्टार्थसिद्धिरिति।
टि. २ - श्री वर्धमान इति श्रिया सकलत्रिभुवनजनमनश्चमत्कारकारिमनोहारिपरमार्हन्त्यमहामहिमाविस्तारि -
अशोकवृक्षः १ सुरपुष्पवृष्टिः २ दिव्यध्वनि ३ श्चामर ४ मासनं च। भामण्डल (लं) ६ दुन्दुभि ७ गतपत्रं ८ सत्प्रातिहार्याणि जिनेश्वराणाम्॥ इति स्पष्टाष्टप्रातिहार्यशोभया चतुस्त्रिंशदतिशयविभूत्या वा समन्वितो वर्धमानः श्रीवर्धमानः। टि. ३ - अयं श्री शब्दो महत्त्वप्रतिपादकः, पूज्यनामादौ लोके प्रयुज्यते । टि. ४ - कुतूहलाय।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org